________________
उच्छ्वासः ]
यत्र च,
मदनरेखा - आख्यायिका
धनतमरुचिरमणीकः कल्याणमयः सनन्दनच्छायः । यत्र वसतां सतां मेरुरेव सादृश्यमाश्रयति ॥ ६६ ॥ कुङ्कुममृगमदमिश्रः स्नानजलैरविरलैर्बहिर्भूतैः । राग-द्वेषमलेवि यद् जिनगलहस्तितैर्भाति ॥ ६७ ॥
अपि तृणं पितृणं स्वऋणं न चानिधनतो धनतो वसतां सताम् । स्वदयितोदयितोद्धृतचेतसां सुनयतां नयतां परमोन्नतिम् ॥ ६८ ॥
१. अत्र एतत्पुरनिवासि मेरुपर्वतयोः सादृश्यं वर्णितं ग्रन्थकारेण तद्यथा-यत्र पुरे घनतमरुचयः प्रभूततराभिलाषा अथवा प्रभूततरप्रभाः रमण्यो भार्याः यस्य सः । कल्याणमयः - श्रेयोमयः, नन्द्रस्य पुत्रस्य छायया शोभया सह वर्तते स तथा । मेरुप० घनतमाः अतिप्रभूताः रुचिराः । मनोहराः, मण्यः-चन्द्रकान्तादयो यत्र स तथा । कल्याणमयः सुवर्णमयः । नन्दनाख्यवनस्य छायया वर्तते स तथा ।
२७
मेरु: घनतमरुचिर-मणीकः नगरवास्तव्योऽपि घनतमरुचि - रमणीकः बहुतमकान्तिसुन्दरीसहितः । मेरुः कल्याणमयः सुवर्णमयः, नगरवास्तव्योऽपि कल्याणकर्ममयः मङ्गलमयः । मेरुः सनन्दनच्छायः नन्दनवनच्छायासहितः, नगरवास्तव्योऽपि पुत्रच्छाया पुत्रकान्तिः तया सहितः, "नन्दनः - पुत्रः ' इति प्रसिद्धम् ।
"
२. यत् इति नगरं जिनगृहाद् गलहस्तितैः बहिः क्षिप्तैः अत एव बहिर्भूतैः कुङ्कुममिश्रैः मृगमदमिश्रैश्च कस्तूरिकामित्रैः अबिरलैः स्नानजलैः भाति -शोभते अर्थात् नगरस्य बहिःपरिसरे क्षिप्तानि कुङ्कुमयुक्तानि कस्तूरिखायुक्तानि च जिनस्नानजलानि दृश्यन्ते । अत्र 'स्नानजलैः ' उपमेयम् 'रागद्वेषमलैः ' उपमानम्, बहिःक्षितैः रागद्वेषमलैखि एतद् नगरं तैः स्नानजलैः भाति इति तात्पर्यम् | अनेन एतन्नगर निवासिषु जनेषु रागद्वेषयोः स्वल्पताऽपि अभिव्यज्यते ।
३. [ किंभूतानां सताम् ? सुदयितया शोभनभार्यया उदयितं उदयं गतं चेतो येषां तेषाम् । स्वनयतां निजनीतितां परमोन्नतिं प्रकृष्टोत्कर्षे, नयतां प्रापयताम् । ]
पितुः ऋणम्, पितृऋणम्, पितृणम्, एवम् स्वऋणम् अपि, तृणम् तृणसमानं न, अर्थात् तेषां नृपसमानमपि ऋणं नास्ति ।
पितृ+ऋणम् पितॄणम् "ऋतो वा तौ च” (१।२।४) इति सूत्रेण सन्धौ सिद्धम् । स्वणम् इति तु "ॠलति ह्रस्वो वा" (१।२।२) इत्यनेन 'स्व' पदसंबन्धिनः अकारस्य ह्रस्वत्वे चिहिते असन्धिः । अंतः स्वर्णम् इति यदा न जातं तदा स्वऋणम् इत्यपि सिद्धम् ।
Jain Education International
अनिधनतः अविनाशतः यावत् स्वस्य विनाशो नास्ति तावत् यावज्जीवं तेषां ऋॠणं नास्ति तो वसतां तेषाम् इत्येवं नीतिः परमप्रकर्ष प्राप्ता । तथा स्वदयिता- स्वदयालुता, तस्याः उदयिताउदयप्राप्तता, तया उद्धतम् उन्नतं चेतः येषां तेषाम्, 'उत् 'पूर्वः गत्यर्थकः 'हन् ' धातुः अत्र बोध्यः, उद्धतम् उद्गतम् उन्नतम् । सुनयतां सुनीतिताम्, परमोन्नतिं परमप्रकर्षम्, नयतां प्रापयताम्, प्रकृष्टतीतिपरायणानाम् । अथ 'सुदयिता' पाठे समीचीनदयालुता० अथवा सुदयिताभिर्वा शोभनाभार्याभिः उन्नतं चित्तं येषां तेषाम् ऋणाभावाय सुभार्याभिः प्रेरणां लभमानानाम् इति भावः तथानि डे । 2 सुदयिताद ल, स्वदयतोद डे । 3 'सां स्वनयतां नयतां प
1
1
I
For Private & Personal Use Only
www.jainelibrary.org