SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ૨૮ श्रीजिनभद्रसूरिरचिता प्रेतिदिनजिनस्नानाम्भोभिः शुचौ मणिकुट्टिमे निशि निशि निशानाथो यस्मिन्नसौ प्रतिबिम्बितः । परिभवपदं नीतः पौराङ्गनावदनश्रिया हृदि कलुषितः पातालान्तर्विशन्निव लक्ष्यते ॥ ६९ ॥ तत्र नैयसमयवासनासारविचारपुरस्कृत विचित्रमन्त्रिमन्त्रसर्गः, सत्याभिनयविनयमयव्यापारवशीकाराभिमुखीकृतसमस्तपूज्यवर्गः सततमविश्रमपूर्वजक्रम समारूढे प्रौढराज्यसमुद्धरणधीरः, निरूँपक्रमपराक्रमसमाक्रान्तविक्रान्तसाहङ्कारदुर्वारवीरः, समुन्नतेनापि भूभृच्चकवानास्खलितरथो राजा मणिरथो नाम । यः प्रबलतरवारिधारानिपातभीषणोऽपि महीभृतामुपरि परितो घनलीलया समुन्नतोऽपि १. प्रतिदिन जिनस्नानाम्भोभिः मणिकुट्टिमे शुचौ निर्मले कृते, तत्र निशानाथः निशि प्रतिबिम्बितः दृश्यते । अत एव ग्रन्थकारः अनेन श्लोकेन तन्नगर स्थितवनितावदन विभूषया परिभव प्राप्तो निशानाथः अस्तमनसमये पातालं विशन्निव इति उत्प्रेक्षते । २. नयसमयः नीतिशास्त्रम् । वासना संस्कारः भावना वा । ३. सत्याभिनय इति सत्यव्यञ्जकः ईदृशः विनयमयो व्यापारः, अत्र विनयो हि सत्यव्यञ्जकः मनोभावसत्यता सूचकः, न तु दम्भप्रधानः गतानुगतिको वा । पूर्वजैः अविश्रान्तं समुद्योगेन राज्यं ४. 'अविश्रम' पदं विश्रान्तिरहितपुरुषार्थसूचकम् प्राप्तम् । 'क्रम' पदं पूर्वजानां परम्परायाः सूचकम् | , १ ८ ५. निरुपक्रमः - विघ्नाभावः । ' सोपक्रमम् आयुः उपक्रमपदं यमर्थं सूचयति स एवार्थः अत्रापि बोध्यः । [ - प्रथमः Jain Education International निरुपक्रमम् आयुः इत्यत्र वाक्ये ६. विक्रान्तः वीरः शूरपुरुषः । ७. यदा भूभृच्चक्रवालम् भूभृत्समूहः पर्वतवृन्दं समुन्नतं स्यात् तदा न कोऽपि रथः अस्खलितो गन्तुमर्हति, अयं तु राजा समुन्नतेन अपि भूभृच्चक्रवालेन अस्खलितरथः कथम् ? इति विरोधः 'भूभृत् 'शब्दः अत्र 'नृप' अर्थसूचकोऽपि बोध्यः तेनैव च विरोधपरिहारः । · " प्रचलस्य ८. घनः मेघः स्वलीलया प्रवलतरवारिधारया प्रपततो वारिणः जलस्य प्रचलतरया धारया यथा राजमण्डलं चन्द्रमण्डलं तिरस्करोति न मित्रमण्डलम् सूर्यमण्डलम् तथैव अयं राजा तरवारेः असेः धारया राजमण्डलम् माण्डलिकानाम् नृपाणाम् सामान्तानां वा मण्डलं तिरश्चकार, न मित्रमण्डलम् स्नेहिमनुजमण्डलं मित्रमण्डलं वा इति । यथा घनः भूभृतां पर्वतानामुपरि स्वलीलां दर्शयति तथा अयं राजा भूभृतां माण्डलिकराजानां वा सामन्तराजानां वा उपरि प्रबलतरवारिवर्पणलीलां करोति, एवम् अस्य नृपस्य ' मेघ 'पदप्रकाशितेन अर्थेन सह समानता प्रदर्शिता, शब्ददृष्ट्या शब्दच्छलेन । 1 रूटराज्य डे । 2 धीरनिरुपमक्रम । 3 रितो प ल । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy