________________
उच्छवासः] मदनरेखा-आख्यायिका तिरश्चकार केवलं राजमण्डलं न पुनर्मित्रमण्डलम् । य च विनतानन्दनसमुल्लासिताच्युतलक्ष्मीकमहितापकारकबलं पश्यन्तोऽपि भुजङ्गतां पृथ्वीं दधानममन्यन्त कृतिनः, येन
१. [यं च मणिरथं कृतिनः पण्डिताः, विनतानन्दनं गरुडम् अत एवोलासितःउरिक्षप्तः, अच्युतः नारायणः, लक्ष्मीः श्रीश्च येन तम् । अहीनां सर्पाणां, तापकारकाः कवलाः यस्य, सर्पकवलनाट् गरुडस्य । तम् एवंभूतमपि, पृथ्वी पृथुलां, भुजङ्गतां सतां दधानं-धारयन्तं, कृतिनः पण्डिताः, अमन्यन्त जानन्ति स्म । यो गरुडः स सर्पतां कथं दधातीति विरोधः । अथ च विनतानाम् आनन्दनं तोषकम् । उल्लासिता वर्धिता, अच्युता अभ्रष्टा, लक्ष्मीः समृद्धिः येन तम् , अहितानां वैरिणाम् अपकारकं बलं सैन्यं यस्य तम् । पश्यन्तोऽवलोकयन्तो भुज गतां प्राप्तां सती पृथ्वीं दधानं धारयन्तं सन्तं कृतिनो मन्यन्ते ।।
अस्मिन् गद्यरूपे मणिरथनृपवर्णने ग्रन्थकारः 'यः, यम् , येन, यस्मै, यतः, यस्य, यत्र' इत्ये सर्व विभक्त्यन्तम् एकवचनान्तं ' यत् 'शब्दं प्रयुक्तवान् ।
ये नृपम् अच्युतलक्ष्मीकम् अहितापकारकबलं पश्यन्तोऽपि कृतिनः भुजङ्गतां पृथ्वीं दधानम् अमन्यन्त इति कथम् ? अर्थात् यः महितापकारकवल:-पृथ्वीतापकारकबल: स कथं पृथ्वीं दधाति ? इत्येवं विरोधः। अस्य परिहारस्तु अच्युतलक्ष्मीकम् अहितापकारकवलम् इत्येवं पदविभागेन सुगमः । अहितानां-शत्रणाम् अपकारकं बलं यस्य अर्थात् शत्रुविनाशकारी स राजा पृथ्वीं भुजं हस्तं प्रति गतां दधात्येव । अन्योऽपि विरोधः एवम्-विनतानन्दनः गरुडः, तेन समुल्लासितो अच्युतः लक्ष्मीश्च यत्र तत् विनतानन्दनसमुल्लासिताच्युतलक्ष्मीकम् , तथा अहितापकारकबलम्-अहेः सर्पस्य तापकारकं बलं यस्य, एवं सति यः सर्पतापकारिबलधारकः स कथं पृथ्वी भुजङ्गतां दधानः स्यात् गरुड-सर्पयोः सहानवस्थानान् ? अत्रापि 'भुज गताम् -हस्तं गताम् इत्येवं पदविभागे सहज एव परिहारः । तथा विनतानां-प्रणतानाम् , आनन्दनेन समुल्लासितां अच्युता-च्युतिरहिता स्थिरा लक्ष्मी राज्यकोशरूपा अथवा तेजोरूपा यस्य तम् इत्येवं भावनायामपि विरोधपरिहारः, तथा य एवंविधलक्ष्मीवान् तस्य पृथ्वी हस्तगता एव भवेत् इति कृतिनां दर्शनं निर्दोष सुसङ्गतं च ।
२. [अथ च येन राज्ञा अनलसमानेन न आलस्योपहताहङ्कारेण | ज्वालस्फीत्यादिरूपो यस्य तेन । अवनं रक्षणम् , तस्य समृद्धिहेतुः, महोदयः उच्छ्यो यस्य तेन । सदा-नित्यम्, आहवं-संग्रामम् , पुष्णाति स तथा तेन एवं सता न हि मान्येव साहङ्कार एव विलयं क्षयं अनीयत । किन्तु सदम्भोऽपि-सकपटोऽपि ।]
अत्र विरोधः परिहारश्च एवम्-यः अनलसमानः अग्निसमानः, अवनसमृद्धिहेतुमहोदय: वनसमृद्धिहेतुमहोदयरहितश्च-वनसमृद्धिविनाशकारी स हिमानीं विलयं नयति इति तु प्रतीतम् , परन्तु तादृशः सदम्भः विद्यमानं वा प्रशस्तं जलं कथं विलयं नयेत् इति विरोधः । अनलस: मानः अभिमानः यस्य स अनलसमानः तीव्रमानतेजोयुक्तः, अवनसमृद्धिहेतुमहोदयः रक्षणरूपायाः प्रीतिरूपायाः वा समृद्धेः हेतुरूपः महोदययुक्तश्च, अथवा आवनसमृद्धिहेतुमहोदयः वनपर्यन्तभूमिसमृद्धिहेतुमहोदयः, तेन न हि मान्येव विलयम् अनीयत-तेन यो मानी जनः अभिभानी भनः केवल विलयं न अनीयत परन्तु यः सदम्भ:-सकपटः शठ: जनः सोऽपि विलयम् इति सुगमम् । विरोधे-न हिमानी एव । परिहारे न हि मानी एव । वि० सद् अम्भः प० स + दम्भः दम्भसहितः सकपटः । तथा सदाहवपुषा-वि० दाहसहितवपुषा, अनलसमानस्य विशेषणम् अनलस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org