________________
श्रीजिनभद्रसूरिरचिता
. [ प्रथमः चानलसमानेनावनसमृद्धिहेतुमहोदयेन सदाहवपुषा न हिमान्येव विलयमनीयत किन्तु सदम्भोऽपि । अस्मै च न परं गिरीशाय पुरस्कृतयुवतिजनमनोभवनायकाय मनोभवनायकाय सुरयोषितोऽपि स्पृहयालवः ।।
___ यतश्च न परं तुष्यतो रुप्यतोऽपि सदानगजदलैरेवावरणचेष्टाबहुधातुरगैरेव झोभा दृष्टा महतामपि महीभृतां, यस्य च प्रतिभटमदोत्कटगिरितटविकटकटकरटिघटाकुम्भस्थलीपर्यटनपरिश्रान्तकोशतटीकोणविश्रान्तकृपाणकान्तया प्रतिपदभग्नानेककण्टकयाऽप्यस्खलितया दाहरूपत्वात् । प० सदा आहवपुषा आहवः-रणसंग्रामः, पुष्यति इति पुष , आहवस्य रणसंग्रामस्य पुष् तेन आहवपुषा । अथवा आहवः यज्ञः तस्य पुषा आहवपुषा दानप्रियेण वा देवाजापरायणेन वा इत्यपि अपरो भावः ।
१. [ यस्मै मणिरथाय, न परं केवलम् , गिरीशाय महेशाय, पुरस्कृतम् उत्साहित युवतिजनमन एव भवनं गृहम् , येन स तथा तस्मै, कायेन शरीरेण, मनोभवः काम एव नायकः स्वामी तस्मै, एवंविधाय सुरयोषितोऽपि देवाङ्गना अपि स्पृहयालवः । अथ च गिरीशाय विदुषे, पुरस्कृतम् उत्साहितं युवतिजनस्य यन्मनस्तस्य भवन मिव तन्मनसो विश्रामहेतुत्वाद् नृपतेः कायेन मनोभवस्य नायक इव स्वामी तस्मै कामादपि सुरूपत्वात् तस्य ।]
__ यस्मै पुरस्कृतयुवतिजनमनोभवाय येन युवतिजने मनोभवः पुरस्कृतः आभिमुख्यं नीतः तस्मै, तथा कायमनोभवनायकाय कायेन शरीरसौन्दर्येण यः मनोभवः अथवा कायधारी वा मनोभवः तस्य तस्मिन् वा नायकः तस्मै कायमनोभवनायकाय सुरयोषितः देवाङ्गनाः स्पृहयालवः परं न गिरीशाय हराय, वाकूपतये हिमालयाय वा । राजा मणिरथ ईदृशभोगविलाससमृद्धिमान् इति भावः ।
२. [ यतः यस्मात् । नगजदलैः नगवृक्षदलैः । सैन्यैः । ] - तुष्यतस्तु जनान् शोभा दृश्यते एव परं यस्मात् नृपात् रुष्यतोऽपि महतामपि महीभृताम् अर्थात् यरय रोपवशाद् महान्तोऽपि महीभृतः राजानः, सदलवला रणे समागच्छन्ति अतः तेषां शोभा दृष्टा । कैः ? सदानाः समदाः गजाः तेषां दलैः एव तथा, आवरणचेष्टबहूधातुरङ्गैरेवये आवरणचेष्टाः आवरणेन (चेष्टन्त इति चेष्टाः) चेष्टाः-चेष्टाकारिणः एतादृशा बहुधा बहुप्रकाराः ये तुरङ्गाः अश्वाः, तैरेव ।
३. प्रतिभटानां मदोत्कटाः गिरितटविकटकरटाश्च ये करटिनः, तेषां या घटाः, तस्याः कुम्भस्थल्या उपरि यत् पर्यटनम् (परितः अटनम् ), ततः परिश्रान्तया भूरिश्रमयुतया, यस्य कृपाणकान्तया तरवारिरूपव नितया, कोशतटीकोणे विश्रान्तया । अत्र करटः हस्तिगण्डस्थलम् । करटी च हस्ती। शत्रगजघटागण्डस्थलभेदनेन परिश्रान्तया तरवारिरूपवनितया स्वकोशकोणे विश्रान्तिः कृता । राज्यं निष्कण्टकं कृत्वा तरवारिरूपवनिता विश्रान्ति कृतवती-इति भावः, तया कृपाणकान्तया गोमण्डलम् अरक्ष्यत इति अन्वयः ।
४. भग्नानेककण्टकयाऽपि अस्वलितरूपया, अन्या तु भग्नकण्टका-यस्याः पादे कण्टको भग्नः सा पुनः प्रवृत्तौ स्खलति, इयं तु अस्खलितरूपा । कण्:कास्तु भूमौ विद्यन्ते ततः तेषां विनाशाय भूमौ एव पदं स्थिरीक्रियमाणं समुचितम् । शत्रवः कण्टका बोध्याः । तथापि अनया
1 कोशकुटी ल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org