________________
मदनरेखा-आख्यायिका
उच्छ्वासः ] तथापि प्रांशुवंशभूधरशिरः परम्परासु स्थिरीकृतपदया दिवानिशमाज्ञागोपालिकया न केवलं सकलं गोमण्डलमरक्ष्यत वर्णाश्रमवत्समण्डलमपि । यत्र च राज्ञि सततमखण्डमण्डलमात्मानमाधाय निजकरनिकरनिरस्तप्रभा सदा मक्षत्रसभामिमां च वसुमतीमतीतविततदुर्नयतिमिरभरा सूत्रयति कलिता न वराकोक्तयाऽतिथयः पूर्णानन्दादयो रिक्ता अपि । अपि च,
कुर्वता पक्षविच्छेदं दर्पोद्धंतमहीभूताम् ।।
इन्द्रवज्ञायितं येन वंशस्थेनापि धीमता ।। ७० ॥ कृपागकान्तया प्रांशुवंशभूधरशिरःपद परम्परासु स्थिरीकृतपदया अर्थात् इयं कृपाणकान्ता प्रांशुवंशाः उन्नतकाष्टमयवंशाः, तथा उन्नता: भूधराः पर्वताः तेषां शिरःपरम्परासु मस्तकपरम्परामु स्थिरीकृतपदा इति विरोधः । परिहारस्तु एवम्-प्रांशुवंशाः उन्नतजातिकुलवंशाः ये भूधराः राजानः, तेषां शिरःपरम्परासु स्थिरीकृतपदा अर्थात् अनेकोत्तमवंशाः राजानः अनेन तृपेण कृपाणकारतया पराजिता इति आशयः । सा च कृपाणकारता राज्ञः आज्ञाङ्किता, यथा राज्ञः शासनं तथैव वर्तनशीला, सा एष गोपालिकारूपा तथा केवल गोमण्डल धेनुमण्डलं न अरक्ष्यत किन्तु वर्णाश्रमनिवासिनः ब्राह्मणादिवर्णस्थितान् आश्रमवासिनः ब्रह्मचर्य-गृहस्थ वानप्रस्थ-संन्यासिरूपवत्सान् सर्वान् लोकान् अपि अरक्ष्यत । अत्र गोपालिका यथा धेनमण्डलं वत्समण्डलं च अरक्ष्यत तथा इयं राज्ञः आज्ञागोपालिका, गोमण्डलं पृथ्वीमण्डलं तन्निवासिनां स्ववत्सरूपाणां प्रजानां मण्डलमपि अरक्ष्यत । इति आशा-गोपालिकयोः साम्यम् ।
१. अत्र वाक्ये नृप-चन्द्रयोः साम्यं वर्ण्यते-यथा राशि चन्द्रे स्वीयं पूर्णमण्डलरूपम् आत्मानम् आधाय सदा नक्षत्रसभा निजकिरणनिकरेण निरस्तप्रभां सूत्रयति सति तथा वसुमतीम् विततः विस्तीर्णः, दुर्भयः दुर्नयकारणरूपः तिमिरभरः तेन अतीताम् रहिताम् सूत्रयति सति रिक्ता अपि तिथयः नवराकोक्त्या नवीनपूर्णिमानाम्ना, कलिता पूर्णा नन्दा जाता इति एवमेव राशि नृपे सततम् अस्यपडलम् पृथ्वीमण्डलरूपम् आस्मानम् अथवा अखण्डस्य पृथ्वीमण्डलस्य मारूपम् लक्ष्मीरूपम्-आत्मानम् आधाय निजकरनिकरनिरस्तप्रभां-निजः यः करः बाहः, तत्समूहेन सदानक्षत्रसभा-दानसहिताः ये क्षत्राः क्षत्रियाः, तेषां सभाम् निरस्तप्रभाम् सूत्रयति सति, तथा वसुमती विततदुर्नयरहितां (अत्र दुर्नयो दुष्टा नीतिः अथवा दुष्टो द्युतभेदः) सूत्रयति सति अतिथयः, रिक्ता अपि धनरहिता अपि, न बराकोक्त्या रङ्कोकूत्या कलिताः किन्तु पूर्णानन्दाः ।
२. यथा हि इन्द्रस्य बद्रो महीभृतां पर्वतानां पक्षविच्छेदं पाचविच्छेदं करोति तथा अर्थ नृपो दर्पोद्धतानां महीभृतां रिपुनृपाणां पक्षविच्छेदं बलविच्छेदं करोति । पर्वतानां पक्षाः पाणि । नृपाणां पक्षो बलम् , “पक्षस्तु मासाधे ग्रह-साध्ययोः ।। चुल्लीरन्ध्रे वधे पार्श्व ।" (-हैम० अने० कां० २, श्लो० ५७७, ५७८) अत्र इदमेव आश्चर्यं यद् अयं नृपः वंशस्थः सन् इन्द्रवज्रायते । यः वंशस्थः स तु वंशे वेणी एव तिष्ठति स कथम् इन्द्रवज्रायितुं समर्थः ? अथवा यः वंशस्थरूपे छन्दसि अस्ति स कथम् इन्द्रवन्नाछन्दवत् आचरितुं समर्थः ? अयं नृपः वैशस्थोऽपि इन्द्रवज्रायते इति 'अपि'शब्देन आश्चर्य सूचयति ग्रन्धकारः। नृपपक्षे वंश:-अन्वयः उत्तमकुलरूपः तत्र स्थितेन अनेन इन्द्रवनायितम् इन्द्रवज्रवद आचरितम् इति आश्चर्यशमनम् ।
1 त्रप्रभा डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org