SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता येस्यारिभिश्चिताऽऽश्लिष्टा सदाहा रोचितप्रभा । बन्धुभिस्तु वारारोहा सदाहारो-चितप्रभा ॥७॥ कौमुदं प्रति यश्चन्द्रः सूर्यः पद्माकरं प्रति । सूर्याचन्द्रमसौ सन्तमसन्तं प्रति चाक्रमात् ॥७२॥ यथा शय्यभवाचार्यास्तथा यस्य महाऽरयः । वीक्षमाणा मनाक्काष्ठा दश-वैकालिकं व्यधुः ॥७३॥ सदानवारणक्रीडा येन कृत्वा ततः कृताः । सदा नवा रणक्रीडा विषयोत्कर्षहर्षिणा ॥७४॥ १. यस्य अरिभिः सदाहा-दाहसहिता तथारोचितप्रभा-रोचितज्वालाप्रभावती चिता आक्लिष्टा। धन्धुभिस्तु सदाहारा उचितप्रभा वरारोहा वनिता स्त्री आश्लिष्टा । सदाहारा कण्ठे सदा विद्यमानहारा तथा उचितप्रभा उचितलावण्ययुक्ता, अथवा सन् आहारो यस्याः सा सदाहारा प्रशस्तभोजनवती; “वरः आरोहः कटीभागः यस्याः सा वरारोहा स्त्री (“ आरोहः दैये उच्छाये सीफट्याम्' (-हैम० अने० कां० ३, श्लो० ८०५) २. यः नृपः को पृथ्व्यां मुदं प्रति आनन्दं प्रति चन्द्ररूपः, यथा चन्द्रः कौमुदं कुमुदानां समूहं प्रति आनन्ददायी प्रसिद्धः, तथा यः नृपः पद्माकरं प्रति लक्ष्मीहस्तं प्रति सूर्यः, यथा सूर्यः पद्माकरं पद्मवनं प्रति विकासकारी प्रसिद्धः । अत्र यः नृपः एक प्रति चन्द्रसमानः एकं प्रति सूर्यसमानः एवंक्रमेण दृश्यते तस्य न काऽपि विशेषता परन्तु अयं नृपः सन्तम् असन्तं च प्रति अक्रमात् क्रमरहितं यौगपद्येन सूर्याचन्द्रमसौ सूर्यरूपः चन्द्ररूपश्च एक.कालं दृश्यते इति अस्य नृपस्य विशेषता । सन्तं सजनं प्रति । असन्तम् असज्जनं प्रति । सज्जना हि नृपं यस्मिन् काले चन्द्रसम शीतलं सुधाकरं च अनुभवन्ति तस्मिन्नेव काले तं नृपम् असजनाः प्रचण्डं सूर्यसमम् तापकरम् अनुभवन्ति इति क्रमरहिततया यौगपद्येन अयं नृपः सूर्याचन्द्रमसौपदेन उपमितः ।। ३. यथा 'शय्वंभव' नामान आचार्या मनाक्काष्टाः स्वीयमनवनाग्नः शिष्यस्य काष्ठाः प्रकर्षाम् वीक्षमाणाः 'दशवैकालिक' नामकं मूलरूपम् आगमं विहितवन्तः तथा यस्य महारयः महान्तः अरयः, दश काष्ठाः दश दिशो वीक्षमाणाः भयेन दिशः अवलोकमाना मनाक् स्वल्पं वैकालिकंविकालभोजनं व्यधुः । महावीरात् प्रथमः सुधर्मा, ततः द्वितीयः जम्बूः, ततः तृतीयः प्रभवस्वामी, ततः चतुर्थः शय्यंभवस्वामी-एवं शय्यंभवो नाम आचार्यः चतुर्थः । स स्वस्त्रियं गर्भिणी संत्यज्य प्रव्रजितवान् । गर्भिणी स्त्रियं दृष्ट्वा लोकेन पृष्टम्-'किं तव गर्ने ?' सा प्रत्युवाच'मनाक' अर्थात् किञ्चित् स्वल्पं पिण्डरूपं मम उदरे विद्यते इति हेतोः जायमानस्य पुत्रस्य 'मनाक्' इति नाम्ना प्रसिद्धिर्जाता । अत एव ग्रन्थकृता 'मनाक्काष्ठा 'पदेन शय्यभवाचार्यस्य मनाक्नाम्नः शिष्यस्य सूचना कृता । "काष्ठा तु प्रकर्षे स्थानमात्रके दिशि" (-हैम० अने० कां० २, श्लो० १०५) ४. विषयोत्कर्षहर्षिणा देशोत्कर्षहर्षिणा-देशानां विजयेन जायमानः उत्कर्षः तेन हर्षिणाहर्षवता अथवा देशानां विजित्देशानां जायमानः उवर्षः तेन हर्षिणा येन नृपेण, सदानैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy