________________
उच्छ्वासः ]
मदनरेखा - आख्यायिका
अरिपुरं प्रति यन्त्र कृतोद्यमे बलवता चरणेऽपतता पुरः ।
अनमता दधता च समानतां बलवता च रणे पतता पुरः ॥ ७५ ॥ न वसुधाssपि न भोजनसंपदो नवपुरं वरतोऽपि सुरोचितम् । नवसुधाssपि नभोजनसंपदो नवपुरं वरतोऽपि सुरोचितम् ॥ ७६ ॥ युग्मम् | अवतो विधितः प्रजा निजा यशसेऽवर्द्धत यस्य मेदिनी । पयसे पृणलः पयस्विनीमिव गोपस्य सदैव तर्णिका ॥ ७७ ॥
समदैः वरणैः सह क्रीडाः कृत्या अर्थात् अश्व- गजयुद्धादीनां क्रीडाः पूर्वम् अभ्यासाय कृत्वा ततः पश्चाद् येन सदा नवाः नूतनाः रणक्रीडाः कृता इति भावः गम्यते ।
Jain Education International
१. [आवृत्तस्य पूर्वार्धेन द्वितीयपूर्वार्ध योज्यम् । उत्तरार्धेनोत्तरार्धे योज्यम् । यत्र मणिरथे अरिपुरं प्रति कृतोद्यमे सति च रणचङ्क्रमणे बलवता समर्थन अत एव पुरो नगरीतः, पतता गच्छता-स्वनगरान्नश्यतेत्यर्थः । द्वितीयवृत्त पूर्वार्धेन एवंविधेन रिपुणा न नैव । वसुधा पृथ्वी, आप लेभे, न भोजनसंपदः - 'अर्थवशाद् वचनपरिणामः' इति न्यायात्-आप्यन्ते आहारप्राप्तिर्नाऽऽपिनाभूदित्यर्थः । अम्बरतोऽपि वस्त्रतोऽपि सुरोचितं अत्यभिमतीकृतं न वपुः शरीरम् आपि । अथवा इत्थंव्याख्या-अकारविश्लेषाद् अवलवता - असमर्थेन अत एव चरणे पादे, पततः आनमत इत्यर्थः । एवंविधेन रिपुणा वसुधा न आपि, अपितु आपि लेभे । भोजनसंपद आविरे । 'अर्थवशाद् विभक्तिपरिणामः' इति बहुवचनम् । सुष्ठु रोचितं नवपुरं नूतननगरम् आपि, आस्तां निजैव भूमिः । एतानि कुतो वरतो मणिरथप्रसादात् । अधुनोत्तरार्धयोर्व्याख्या-अनमता प्रणाममकुर्वता, यतः समानतां साहंकारतां दधता धारयता अत एव बलवता च सैन्यसहितेन च चशब्दोऽपिशब्दार्थः । रणे संग्रामे पतता स्त्रियमाणेनेत्यर्थः । छ ? पुरो मणिरथस्याग्रे । तेन रिपुणा नवा नूतना, सुधा अमृतम् आपि । नभसि जनाः नभोजनाः अर्थाद् देवास्तेषां संपदः समृद्धयः । आपिरे पूर्ववत् मृत्वा स्वर्ग गता इत्यर्थः । वरतोऽपि सुरोचितम् श्रेष्ठादपि सुष्टु रोचितम् इष्टम्, नवपुरं स्वर्गिनगरम् इत्यर्थः । आपि लेभे इति वृत्तयुग्मार्थ: । ]
,
यत्र यस्मिन् राशि अरिपुरं विजेतुं कृतोद्यमे केनचिद् बलवता बलिष्ठेन पुरः चरणे अपतता अत एव अनमता, तथा बलवता चमूसहितेन केनचित् समानतां दधता रणे च पतता पराजयं प्राप्तेन न वसुधा आपि प्राप्ता, न भोजनसंपद् आपि प्राप्ता, भोजनसंपद् +ओ = भोजनसंपदो | अत्र 'ओ' इति अव्ययम् संबोधनसूचकम् अतः 'हे जनाः' इति अध्याहार्यम् । तथा वरतोऽपि वरदानतोऽपि सुरोचितं सुकान्तियुक्तं वपुः न आपि । अत्र वपुः+अ=वपुरम् | 'अं' इति अव्ययं स्वीकारसूचकं ज्ञायते 'हां' इत्यस्य प्रतिरूपकम् 'अ' इति । परन्तु मरणान्तरम् नवसुधा नवीनम् अमृतम्, आपि प्राप्तम् । नभोजनसंपदः नभोजनानां संपदः स्वर्गीयसंपदः प्राप्ताः नवपुरं नवीन शरीरं, वरतः स्वीकुर्वतः सुरोचितं देवोचितम् नवपुरं नवीनं शरीरम् आपि प्राप्तम् । अर्थात् अनेन राज्ञा सह येऽन्ये नृपा युद्धं कृतवन्तस्ते पराजिताः मरणं प्राप्ताः स्वर्ग प्राप्ताः इति ।
२. पयसे दुग्धाय, पृणतः पालयतः गोपस्य तर्णिका वत्सतरी यथा अवर्धत तथा अस्य राज्ञः यशसे-यशोऽर्थं, निजाः प्रजाः, अवतः रक्षतः, मेदिनी पृथ्वी, अवर्धत - अस्य राज्यं विशेषतः विस्तीर्ण जातमिति भावः ।
३३
For Private & Personal Use Only
"
www.jainelibrary.org