SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [प्रथमः गृहीतदीपैरपि ने प्रसारितेक्षणैरपि क्वापि यदर्थितेक्ष्यते । प्रसिद्धिमागादिदमेव दूषणं महीपतौ शासति यत्र मेदिनीम् ॥ ७८ ।। धर्मगुणेषु कथामपि कर्तुं लभते न जातु वधकजनः । अस्खलितः पुनरितरः करुणैकधने नृपे यत्र ॥ ७९ ॥ न खलु मकरकेतुः सुप्रसन्नेऽपि शम्भी ___ वचन समुपलेभे रूपरेखां यदीयाम् । दधति मुदममन्दामन्यथा स्मेरनेत्रा . मनसि युवतयः किं तं सकामा वहन्त्यः ? ॥ ८०॥ तस्य च कनिष्ठेनापि गुणगरिष्ठेन वरवीरवारप्रष्ठेनापि स्थिरप्रतिष्ठेन, वरानमारातिस्वामिसुहृबन्धुहृदयमध्यमधिवसताऽपि दलितैकसकलबहिरङ्गान्तरङ्गविपक्षकक्षण १. यस्मिन् नृपे मेदिनी शासति यत् यस्मात् प्रसारितेक्षणैरपि गृहीतदीपैरपि अर्थिता याचकता न वापि ईक्ष्यते विलोक्यते, अतः अस्य राज्ञः नगरं 'याचक्तारहितम्' इति दूषणं प्रसिद्धं जालम् । २. [धर्मगुणेषु धनुःप्रत्यञ्चा । अस्खलितः कर्तुं लेभे ।] यस्मिन् करुणैकधने नृपे वधकजनः धर्मगुणेषु धनुषः गुणेषु, अथवा धनुषि, तद्गुणे च कथामपि कर्तुं न लभते परन्तु इतरो जनः अवधकजनः धर्मविषये तद्गुणविषये च अस्खलितः सन् कथां करोत्येव, अत्र वधकजनपक्षे धर्मशब्दः धनुषो वाचकः, गुणशब्दश्च धनुष्प्रत्यञ्चावाचकः तथा अवधकजनपक्षे धर्मशब्दः अहिंसा-सत्यादिधर्मस्य वाचकः, गुणशब्दश्च शौर्य-क्षमा-मार्दवादिगुणानां वाचकः । तथा च कोशः "धर्मो यमोपमापुण्यस्वभावाऽऽचारधन्वसु । सत्सर्गेऽहत्य हिंसादौ न्यायोपनिषदोरपि ॥ धर्म दामादि के ।" -(हैम अने० कां० २, श्लो० ३३०, ३३१) तथा"गुणो ज्यासूदतन्तुषु । रज्जौ सत्वादी सन्ध्यादौ शौर्यादौ भीम इन्द्रिये ।। रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे ।।-(हैम अने० कां० २, श्लो०- १३९-१४१) ३. शम्भुना दग्धः मकरकेतुः कामः शम्भौ सुप्रसन्ने जातेऽपि यदीयां यन्नृपसल्का रूपरेखा वचन न लेभे? यदि न लेभे तदा अन्यथा-कामस्य अनङ्गस्य अभावे-स्मेरनेत्रा विस्फारितनेत्रा युवतयः तं कामं वहन्त्यः सकामाः अमन्दां मुदं दधति इति किम् कथं स्यात् ? यदि कामो जीवितः स्यात् तदैव 'युवतयः सकामाः' एतत् संभवति । स च जीवितः कामः अयं नृप एव, अत एव तं युवतयः मनसि दधति-धारयन्ति तत एव च सकामाः, अत्र कामशब्दः स्मरवाचकः, इच्छावाचकः, काम्यवाचकश्च । “कामः स्मरेच्छा-काम्येषु" "कामं वाढेऽनुमति-रेतसोः ॥"-(हैम अने० कां० २, श्लो० ३२३, ३२९) ४. [ प्रष्ठेनापि स्थिर प्रतिष्ठेन वेगवता अग्रगेण, स्थिरस्थितिना ।] Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy