________________
उच्छवासः ] मदनरेखा-आख्यायिका मन्थाचलेनेव श्रीमदामोदकरणेन न-दीनमथनेन प्रकटितराजक लेन सुप्रभावसुधोल्लासकेन संपादितसुरभीकेन, प्रकृतिसमुन्नतेन कुलीनतैकस्वभावेन समस्तकल्याणघटितमूर्तिना पादलग्नराजहंसकरेण युगबाहुनामधेयेन सोदरेण युवराजेन निर्मथितनिखिलदुरवगाहचिन्तामहार्णवस्य, विषयसुखरसिकस्यापि प्रतापः परां वृद्धिमगमत् । ___ एवं च कदाचित् सर्वाङ्गलानर्बहुनिमग्नरमन्दमकरन्दामोदलीनद्विरेफपुङ्खः कुसुमकार्मुकसायकरिव स्वयमवचितैः स्वयमेव विरचितगुम्फैः सुरभितमैरभिरामकुसुमभरैरलंक्रियमाणाभिरन्तःपुरसुन्दरीभिः शरणार्थमिवानुगम्यमानस्य, कनकाचलस्येव सेंदारामरोचितविचित्र
१. अत्र 'वराङ्गना' प्रभृतिकानां 'वन्धु'शब्दपर्यन्तानां पदानां द्वन्द्वो वोध्यः अतश्च
याः, अरातेः, स्वामिनः सुहृदः बन्धोश्च समानवयोमित्रस्य हृदयम् अधिवसता अधितिष्ठता इति भावः । यथा मन्थाचलः श्रीमतः लक्ष्मीपतेः कृष्णस्य आमोदकरणः तथा अयं श्रीमतां धनवतां जनानाम् आमोदकरणः तथा नदीनमथनो मन्थाचलः (नदीनः समुद्रः) अयमपि दीनानां न मथन:न दुःखोत्पादकः ।
२. [ नृपतेः कला चातुर्य येन । ] येन राजकला राज्यकरणपटुता अथवा राजकला राजांशरूपा प्रकटिता तेन ।
३. सुप्रभया वसुधाया उल्लासकेन । अथवा सुप्रभावेण सुधाया गङ्गाया उल्लासकेन-"सुधा गङ्गेष्टिका स्नुह्योः” -(हैम अने० कां० २, श्लो० २५९)
४. येन सुरभिः संपादिता, सुरभिः काञ्चनं धेनुः वसन्तश्च, 'सुरभिः हेम्नि चम्पके ।। जातिफले मातृभेदे रम्ये चैत्र-वसन्तयोः । सुगन्धौ गवि सलक्याम्" (हैम अने० कां० २, श्लो० ४८९, ४९०), अथवा यतः सुरैः भीः भयं संपादितम् तेन संपादितसुरभीकेन अत्र नकार-णकारयोः साम्यं ज्ञेयम् । “कवर्गीकस्वरवति' [२।३।७६] इति सूत्रेण 'सुरभीकेण' इति प्रयोगः साधुः ।
५. कुः पृथ्वी, तत्संरक्षणे लीनता सा एव एकः स्वभावो यस्य तेन, अथवा-उच्चकुलता तदनुसारी एकः स्वभावो यस्य तेन ।
६. राजहंसानां करः, राजहंसकरः पादे लग्नः पादलग्नः । पादलग्नः राजहंसकरो यस्य तेन 'राजहंसाः उत्तमनृपाः, तेषां करः यस्य पादे लग्नः अर्थात् उत्तमनृपा अपि नमन्तः यस्य पादे स्वकरण स्पर्श कुर्वन्ति । "राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे"-(हैम अनेका० कां० ४, श्लो० ३४७)
- ७. विषयः देशः तस्य सुखम्-स्वदेशजनमुखरसिकस्य अथवा विषयाः शब्द-रूपादयः तत्मुखरसिकस्य ।
८. द्विरेफा एव पुङ्खाः, पुलो हि शरपृष्ठम् । .९. कुसुमकार्मुकः स्मर: काम:-अनङ्गः, तस्य सायका बाणा इन ।
१०. यथा कनकाचलः मेरुः दारसहितानाम् अमराणां देवानाम् उचितः विचित्र: विनोदरूपः तथा सन् शोभनः आरामः उद्यानं तत्र यो रोचितः विचित्रश्च विनोदः यस्य तस्य तादृशनृपस्य अथवा 'सदा सततम् आरामः' अन्यत् पूर्ववत् ।
११. [सदाराणां सभार्याणाम् अमराणां देवानाम् उचिता योग्या विचित्रा अनेके विनोदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org