________________
श्रोजिनभद्रसूरिरचिता
[ प्रथमः विनोदस्य, कदाचिदिन्दंवदनावदातवदनसमुदयेनाभिषेणयितुमिव गगनगिरिसमारूढसुधादीधिति समारुह्य क्रीडाचलचूलिकामानन्दरसं योगिन इव विलसत्परमहं-सलीलमनुभवतः ।
कदाचिच्च काचिद् अपामरमेञ्जनमनोहरं रूपं बिभ्राणा घनतरलहरिसमुल्लासितरङ्गा विख्यातरुचि-र-विभवा काचिद् विशदाम्बरधरा सुरसंगता सुरतरङ्गिणी, काचित् यत्र मेरौ स तथा तस्य, मणिरथस्य तु सति शोभने आरामे रोचिताः विचित्राः विनोदाः यस्य तस्य ।]
१. गगनगिरि० इति पदम् , 'अभिषेणयितुम्' इत्यस्य कर्म, अभिषेणयितुम्-सेनाम् अभिमुखं कर्तुम् आक्रमणं कर्तुम् ।
२. समारुह्य-अस्य 'क्रीडाचलचूलिकाम्' इति पदं कर्मरूपम् , 'योगिनः' इति षष्ठयन्तं पदम् ।
३. [विलसन् परः प्रकृष्टो महः उत्सवः यत्र तम् आनन्दरसं, सलीलं लीलया सहितम् यथा भवति एवम् अनुभवतः योगिपक्षे विलसन्ती परमहंसस्य परमात्मनो लीला यत्रानन्दरसं तम् अनुभवतः ।।
__ अत्र 'लीला' शब्दं विना ‘परमात्मनो लीला' रूपे अर्थे वाच्ये परमहंसस्य लीला ताम् अनुभवतः इत्यर्थो न घटेत अतः अत्र योगिपक्षे 'लीलम्' इत्यस्य स्थाने 'लीलाम्' इति उचितम् । यद्यपि ललनं लीलः इति भावे घञि निपातनात् 'लील' शब्दोऽपि साधयितुं सुकरः परं स साहित्ये अप्रसिद्धः, 'लीला' शब्द एव विश्रुतः ।
४. [काचिदन्तःपुरी कर्मतापन्ना अपामरा-अग्रामीणा मा लक्ष्मीर्यस्य तज्जनमनो हरतीत्येवंविधं रूपं बिभ्राणा। जलक्रीडातो घनतराभिलेहरीभिः कलोलैः समुल्लासितो रङ्गो यस्याः सा तथा ।]
उत्तमम् अथवा अपगता अमरा यस्मात् तद् अपामरम्-देवरूपादपि अधिकम् अञ्जनमनोहरं रूपम् । अत्र 'जनमनोहरम्' इत्यर्थे कर्तव्ये 'अपामरमञ्जन०' इत्यस्य 'अपामरमम्+जन' - इत्येवं विभागो बोध्यः, पश्चात् सन्धौ 'म्' इत्यस्य अनुनासिके अत्वे 'अपामरमञ्जन०' इति निष्पन्नम् । द्रष्टव्यम् सिद्धहेमव्याक० १।३।१४ ।
५. शुद्धान्तवधूः उपमेयं विशेष्यम् , अन्यानि पूर्वोक्तानि सर्वाणि उपमानानि विशेषणानि । तथाहि-नदी अञ्जनमनोहरं दिग्मतंगजमनोहरं जलरूपं विभ्राणा, शुद्धान्तवधूः नेत्राञ्जनमनोहरं रूपं बिभ्राणा, सुरतरङ्गिणी देवनदी घनतरलहरिसमुल्लासि-तरङ्गा अथवा घनतरलहरिसमुल्लासित-रङ्गा । देवनदीपक्षे रङ्गो विष्कम्भः विस्तारः। शुद्धान्तवधूः अपि ईदृशी, अत्र तरङ्गपदेन उदाधःस्थितत्रिवली. तरङ्गाः ज्ञेयाः । रङ्गपदेन च नृत्यं ज्ञेयम् । “अञ्जनं मषौ । रसाञ्जनेऽक्तौ सौवीरेऽथाऽञ्जनो दिग्मतङ्गजे" -(हैम अनेकार्थ० कां० ३, श्लो० ३८२, ३८३)
६. [ विख्यातो विदितो रुचिरः प्रधानो विभवो विभूतिर्यस्याः सा तथा । अथ सा विख्यातरुचेः रवेरादित्याद् भवतीति विख्यातरुचि-रवि-भवा यमुनानदी सातु अपां पानीयानाम् अरम् अत्यथम् अञ्जनमनोहर श्यामम् आकारं बिभ्राणा । घनम् अत्यर्थ तरलो चलनावस्थायां चपलो यो हरिः कृष्णस्तेन समुल्लासिनस्तरङ्गाः यस्याः सा तथा ।]
७. [ काचिदन्तःपुरी विशदानि अम्बराणि वस्त्राणि धारयति ।। 1 कायामा खल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org