SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा - आख्यायिका कैमल करवभासमानाऽऽमोद धारयन्ती सदावर्तनाभि- रमणीया नर्मदा, काचिद् गोत्रस्खलनेऽप्यस्खलितस्वभावा समुल्लसितोत्कलिकाविलासा गम्भीरा; काचिर्दुल्लसत्कङ्कणा सदानीर कसत्त्वसन्तोषपोषिका, पंतिसेवनोद्यता, करंतो- या - जलकेलि कौतूहलसरलचेतसः, केलिःसरसी समुद्रे देवनदीपक्षे अम्बरं गगनम् । वधूपक्षे अम्बरं वस्त्रम् । ८. [सुरसं शोभनानुरागं गता प्राप्ता तथा सुरते संभोगे रङ्गो विद्यते यस्याः सा तथा । ] नदीपक्षे सुरैः संगता अथवा सुरसं गता-सुजलं प्राप्ता । वधूपक्षे सुरसं सुन्दरं शृङ्गारादिरसं प्राप्ता । ९. [ नदी सुरतरङ्गिणीगङ्गा विशदं निर्मलम्, अम्वरम्-आकाशं धरा आधारभूता पृथ्वी च यस्याः सा आकाशगङ्गा इत्यर्थः । सुरैर्देवैः संगता युक्ता ।] नदीपक्षे स्वर्गगङ्गा । वधूपक्षे सुरत- रङ्गवती । सुरतं प्रसिद्धम् । १. [ काचिदन्तःपुरी के पानीयम् अवभासमानामोदं शोभायमानपरिमलं, अलकैः- कुलि केशैः कृत्वा धारयन्ती ।] ३७ २. [सदावर्तया नाभ्या तुन्दकुपिकया रमणीया ।] देवनदीपक्षे सता शोभन अथवा सदा नित्यम् आवर्तनेन अभिरमणीया । आवर्तनं जल• भ्रमणम् । वधूपक्षे विद्यमानावर्तया नाभ्या रमणीया अथवा केशानां सता सदा वा आवर्तनेन अथवा अङ्कानां सता सदा वा आवर्तनेन अभिरमणीया । ३. [ नर्म ददातीति नर्मदा नदी तु कमलैः कैरवैर्भासमानम् आमोदं परिमलं धारयन्ती । सदा नित्यम् आवर्तनैर्भ्रमत्पानीयविवरैः अभिरमणीया नर्मदा रेवा | ] नदीपक्ष नदीनाम । वधूपक्षे रागरसदा हास्यदा । ४. [ काचिदन्तःपुरी गोत्रस्खलनेऽपि भ्रमात् सपत्नीनामग्रहणेऽपि अस्खलितः स्वभावो यस्याः सा तथा । अत एवं समुल्लासितोत्कलिका उच्छलितोत्कण्ठा विलासा यस्याः सा तथा । तत एव गम्भीरा अज्ञापितात्मकालुष्या । नदी तु गम्भीराख्या गोत्रेषु पर्वतेषु स्खलनेऽपि अजातमालिन्या | ] ५. [ समुल्लसितउत्कलिकानां कुर्म्माणां विलासो यस्याः सा तदा । ] नदीपक्षे उत्कलिका:-तरङ्गाः । वधूपक्षे उत्कलिका उत्कण्ठा । ६. [काचिदन्तःपुरी करे तोयं पानीयं यस्याः तथा । अत एवोल्लसन्ति कङ्कणानि यस्याः । उल्लसन् कं पानीयं तस्य कणा लघुबिन्दवः यस्याः सा तथा ।] नदीपक्षे कङ्कणं मौलिभागः शेखरभागः । वधूपक्षे कङ्कणं करस्य आभूषणम् । ७. [ सदा नित्यं निर्गता रैका लक्ष्मीर्यस्याः सा नीरैका सा सत्त्वानां जीवानां संतोपं पुष्णाति । सदा सर्वदा नीरस्य एकेऽद्वितीया ये सत्त्वास्तेषां संतोपं पुष्णाति । ] नदीपक्षे सदा नीरेण एकेपाम् अन्येषां सत्त्वानां प्राणिनां संतोपं पोपयति । वधूपक्षे सदा नीरेण नीरदानेन उपलक्षणात् दानधर्मेण एकेषां सत्त्वानां संतोषं पोषयति । ८. [ पत्युर्मणिरथस्य सेवनोद्यता । पत्युः समुद्रसेवनोद्यता ।] नदीपक्षे पतिसेवनम् समुद्ररूपपत्युः सेवनम् वधूपक्षे स्वपतेः सेवनम् । [ अथ च करतोयाऽऽख्या नदी । ] नदीपक्षे एतन्नाम्नी नदी । वधूपक्षे करे तोयं यस्याः सा । 1 लागर्स डे। 2 सदानैरै डे । 3 लिकु ल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy