SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ રેટ श्रोजिनभद्रसूरिरचिता [ प्रथमः निम्नगा इव शुद्धान्तवधूः संस्पृहं मज्जयतः स्वयमपि सर्वावसरदानमिव श्रीमज्जनानन्दकारणं प्रस्तावयतः । कदाचित् स्वकीयमिव सन्तानं मंद्रजातितिलकं, हरिवंशमिव दानवारिराज्यालंकृत, पाण्डित्यमित्र अक्षूणलक्षणालङ्कारसाहित्यं, निजसैन्यमिव करदण्डताडितविपक्षलक्षं, लोकाग्रमिव मस्तकस्थिताव्यक्तमुक्तं, सौराज्यमिव सप्ताङ्गसुप्रतिष्ठ, सुरेन्द्रवृन्दमिवानेकेपविराजितं, " अथवा करतो या इत्येवं पदविभागे या शुद्धान्तवधूः जलकेलिकौतूहलसरल चेतसः पत्युः नृपस्य सेवनोद्यता अर्थात् नृां स्वहस्तेन स्नपयन्ती दृश्यते इत्यपि आशयो व्यज्यते । १. [ नदी क्षे नदी हि निम्नगा भवति । वधू क्षे मज्जनावसरे मज्जनकारयित्री निम्नगा भवति-नीचता भवति । ] २. श्रिया उपलक्षितं भज्जनानन्दस्नाने हर्षकृत् कारणं स्नानोपकरणं पुष्प-फल- कुङ्कुमादिरूपं हेतुं प्रस्तावयतः । किमिव ? सर्वावसरदानमिव । श्रीमतां लक्ष्मीपतीनां जनानाम् आनन्दि हर्षकारणं प्रस्तावयतः । श्रीयुक्तं शोभनं मज्जनं तदेव आनन्दकारणम् अथवा श्रीमतां जनानाम् आनन्दकारणम् । ३. [ सुप्रधाना, मध्ये । ] अत्र गजराजम् अधिरुह्य इति प्रधानं पदम् । 'भद्रजाति तिलकम्' इत्यादीनि गजराज - विशेषणानि । तथाहि - गजराजं सन्तानमिव भद्रजातितिलकम् । गजपक्षे संतानम् अपत्यरूपम् भद्रजातितिलकम् " भद्रो मन्दो मृगो मिश्रः चतस्रो गजजातयः " ( अभिधान० कां ० ४ श्र० २८४) इत्येवं भद्रादिजातिषु गजेषु तिलक्रूपम्, संतानपक्षे भद्रजातिः उत्तमजातिः तत्र तिलकरूपं संतानम् । ४. [ दानवारि०- नारायणस्य । ] गजराजं हरिवंश मित्र दानवारिराज्यलंकृतम् । गजपक्षे दानवारि मदजलम्, तस्य राजि:श्रेणिः तया अलंकृतम् । अत्र '० राज्या अलंकृतम्' इति पदविभागः । हरिपक्षे दानवारिः श्रीकृष्णः तस्य राज्येन अलंकृत हरिवंशम् । अत्र '० राज्याऽलंकृतम्' इति समासयुक्तं पदम् । ५. गजराजपक्षे गजस्य यानि अक्षूणानि पूर्णानि लक्षणानि तेपाम् अलंकारसहितम् अथवा तैः पूर्णैः लक्षगैः सहितम् तथा अलंकारसहितं च- अलंकाराः गजस्य आभरणानि तैः सहितम् । पाण्डित्वपक्षे अक्षूणानि यानि लक्षणशास्त्राणि शब्दादिलक्षणशास्त्राणि तद्राणि एव अलंकाराः तैः सहितम् अलंकारसहितम्, अथवा अलंकारशास्त्रेण च सहितम् । ६. गजराजपक्षे करदण्डः शुण्डादण्डः तेन लक्षं विपक्षाः गजेन ताडिताः । निजसैन्यपक्षे कररूनो दण्डः तेन सैन्यं लक्षं विपक्षान् ताडितवत् - अताडयद् इत्यर्थः । ७. गजराजस्य मस्तके अव्यक्ता मुक्ता मौक्तिकानि स्थिता इति प्रवादः । लोकाग्रपक्षे मस्तके अभागे स्थिता अरूपित्वेन अव्यक्ताः सिद्धात्मानः यत्र लोकाग्रे । ८. गजराजपक्षे सप्तभिः शुण्डा-चरणप्रभृतिभिः अङ्गैः सुप्रतिष्ठितं गजराजम् । सौराज्यपक्षे सौराज्यम् अमात्यप्रभृतिभिः सप्तभिः अङ्गैः प्रतिष्ठितं भवति "स्वाम्यमात्यः सुहृत् कोशो राष्ट्र - दुर्ग बलानि च राज्याङ्गानि ” ( अभिधान० कां० ३, श्लो० ३७८ ) इत्येवं प्रसिद्धानि सप्त राज्याङ्गानि । 1 | 2 रसहितं नि ख । 3. तिष्ठितं सु डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy