SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका कलिकालसर्पकवलितपशममुपमितिभवप्रपञ्चकथा । उत्थापयति यदीया व्याख्याता सिद्ध इह सकः ॥१४॥ कथमभयदेवसूरिन जयति विवरणरसायनैर्यस्य । वृद्धाऽपि न जुत्रापि स्खलति नैवाङ्गी नवाङ्गीव ? ॥१५॥ 'नाकरणाग्नेषु प्रथितोत्साही न-वप्रकरणेषु । सङ्ग-रहितेषु मुनिचन्द्रसूरि-जिनवल्लभौ वीरौ ॥१६॥ आनन्दसूरितस्तत उदितोदितवर्णसंपदुत्कर्षा । श्रीदेवभद्रसूरेः सन्ततिरिव जयति भणितिरसौ ॥१७॥ १. [ सिद्धर्षिः ।। सिद्धर्षिनामा कविपुरंदरः 'उपमितिभवप्रपञ्चा'ऽभिधचम्पूकथाकार:माघकविपितृव्य पुत्रः आचार्यश्रीहरिभद्रसूरेः पश्चात्समयवर्ती सुप्रसिद्धः । २. ‘स एकः' इति पदविभागः । ३. प्राचीना, नवाङ्गी-नवानाम् नवसंख्यावताम् , अङ्गानां अङ्गशास्त्राणाम् समाहारः । नवाङ्गी । नवाङ्गीपक्षे 'नवाङ्गीव' । वृद्धा प्राचीना अपि नवाङ्गी विवरणरसायनैः विवेचनरसायनैः नवाङ्गीव नूतनाङ्गीव जाता न वापि रखलति । वृद्धापक्षे काचिन वृद्धा नारी विवरण-रसायनैः विशिष्टवरणेन विशिष्ट पतिस्वीकारेण रसायनैश्च नवाङ्गो नूतनाङ्गो-यौवनयुक्तशरीरबती जाता सती न क्वापि स्खलति । तद्वत् वृद्धा-प्राचाना-नवाङ्गी अपि न क्वापि स्वलति । ४. अत्र 'नव'शब्दः संख्यासूचकः, अभयदेवसूरिहि नवाङ्गीवृत्तिकारतया सुप्रतीतः । ५. अत्र 'नव' शब्दः नूतनतःसुचकः । ६. न अकरणारम्भेषु-अकरणे सति आरम्भः येषां तेषु अर्थात् अद्ययावत् कैरपि प्रायः नवीनरचनारम्भः न कृतस्तस्मिन् समये । नवप्रकरणेषु नवानि नूतनानि प्रकरणानि येषां तेषुनवीनप्रकरणकार केषु ! तादृशेषु सङ्गरहितेषु रागलक्षणसङ्गरहितेषु अनासक्तेषु । न अकरणा० इति पदविभागः । अत्रत्यः 'न'कारशब्दः 'वीरौ'पदेन सह अन्वयी । एवं च 'न प्रथितोत्साहौ वीरौ' इति काकुना प्रश्नः । उत्तरं तु 'प्रथितोत्साही वीरौ एव' अर्थात् सङ्गरहितेषु एतौ एव वीरौ। नाकरणारम्भेषु । न वप्रकरणेषु प्रथितोत्साहौ । सङ्गरहितेषु । एतेषां त्रयाणां पदानाम् अयम् अन्योऽपि अर्थः प्रतिभासते । तथाहि-नाकाय-रवर्गप्राप्तये रणस्य आरम्भेषु सत्सु संगरहितेषु संगराययुद्धाय हितरूपेषु वप्रकरणेषु दुर्गभूमिविधानेषु यौ न प्रथितोत्साही अर्थात् स्वर्गलाभप्राप्तये यौ न प्रथितोत्साही । नाभरण० इति पाठान्तरस्यापि अर्थ तावन्-यदा नवानि प्रकरणानि भरणाय-पूरणाय न आरम्भः कृतः तदा इति । 1 नाभर° डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy