________________
श्रीजिनभद्रसूरिरचिता
[प्रथमः संप्रति-राजप्रतिबोधकारका हेमचन्द्रतः केऽन्ये । प्रथितमैहागिरिगौरवपटवो न मुंहस्तिनः किं ते ? ॥१८॥ सुललितपदामिमां वादमञ्जरी सुरस-भावरुद्धेऽपि । प्रतिभारङ्गे भद्रेशरसूरिनर्तयांच के ॥१९॥ खर-दूषणनिर्णाश चक्रे क्वचिदपि न चापशब्दं यः ।
श्रीशान्तिसूरिरपरः स सुमित्रानन्दनो जयति ॥२०॥ १. 'संप्रतिराजः' इत्येवम् अखण्डं नाम । कोणिकनाम्नः मगधराजस्य पुत्रः 'संप्रति' इति नाम्ना प्रसिद्धः । बौद्धकथासु स एव 'संपदि'नाम्ना । हे० पक्षे 'संप्रति' इति पृथक पदम् । तथा च संप्रति-वर्तमानकाले राजप्रतिबोधकारकाः हेमचन्द्रसूरयः ।
२. इदमपि आर्यश्रीआयसहस्तिनः गुरुभ्रातुः आर्यमहागिरेः नाम । एतौ द्वावपि आर्यश्रीस्थूलभद्रस्य शिष्यौ । तत्र महागिरिज्येष्ठः, महावैराग्यवान् जिनकल्पतुलनाकारी। एनयोवत्तान्तः कल्पसूत्रस्थविरावलितः तथा श्रीहेमचन्द्रसूरिरचित-परिशिष्टपर्वतः ज्ञेयः । हे० पक्षे महागिरेः प्रथितं प्रसिद्धम् यद् गौरवं तद्वत् पटवः श्रीहेमचन्द्रसूरयः, अथवा प्रथितः-प्रसिद्धः यो महागिरिः मेरुपर्वतः हिमालयो वा तद्वद गौरवेण पटवः इत्यपि भावः संघटते ।
३. हे० पक्षे यथा आर्यसुहस्तिसूरिः सम्प्रतिनृपं प्रतिबोधितवान् तथा श्रीहेमचन्द्रसूरिरपि गूजरेश्वरं कुमारपालनृपं प्रतिबोधितवान् , अतः हेमचन्द्रसूरयः किं न सुहस्तिनः १ तथा 'सुहस्तिनः' इत्यस्य अन्योऽपि आशय एवम्-सुहस्तिनः-सुहस्तयुक्ताः सुन्दरहस्तलक्षणयुक्ताः । आर्यसुहस्तिनो हि स्वज्येष्ठ भ्रातु: गौरवं प्रथितवन्तः इति प्रसिद्धम् , ततश्च ते पटव इति । अत्रापि काक्वा प्रश्न:-किं न सुहस्तिनः ? अपि तु ते हेमचन्द्रसूरयः उभयथा सुहस्तिन एव । श्रीआर्यसुहस्तिनः संप्रतिराज प्रतिबोधितवन्तः । ततश्च स राजा समग्रां वसुंधरा जैनी कर्तुकामः सम्राइ अशोक इव प्रयत्नं कृतवान् इति जैनप्रवादे प्रतीतम् । अस्य विशेषवृत्तान्तं जिज्ञासुना श्रीहेमन्द्रसूरिरचितं परिशिष्टपर्व समवलोक्यम् ।
४. शोभनो रसः सुरसः तथा शोभना भावः सुभावः ताभ्यां रुद्धे । 'द्वन्द्वादो श्रयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायेन 'सु'पदस्य 'भाव' शब्देनापि अन्वयो बोध्यः । सुरसभावरुद्धेऽपि इत्यस्य अन्योऽपि अर्थ:-सुराणां सभा सुरसभा तया अवरुद्धेऽपि अतिसंकीर्णेऽपि प्रतिभारङ्गे । अतिसंकीर्णस्थाने नर्तनप्रवृत्तिः दुष्करा तथाऽपि भद्रेश्वरेण सा कारिता इति चमत्कारः ।
५. शा. पक्षे चाऽपशब्दम् । अपशब्दो हि काव्ये महादषणम् । सु० पक्षे चापशब्दम्चापस्य शब्दम् । चापं धनुः । सुमित्रा हि लक्ष्मणस्य माता येन तस्य 'सौमित्रिः 'समित्रानन्दनो वा' इति नाम्नाऽपि प्रसिद्धि: । शा० पक्षे सुमित्राणाम् आनन्दनः आनन्दजनकः । उपमानतया सुमित्रानन्दन इति विशेषनाम ।
६. लक्ष्मणः । अत्र शान्तिसूरिः उपमेयः, सुमित्रानन्दन उपमानम् । काव्ये यानि खराणि प्रखराणि दूषणानि तेषां शान्ति० निर्णाशं चक्र तथा सुमित्रानन्दनोऽपि खर-दूषणनामकानां दानवानां चापशब्दं कृत्वा निर्णाशं चक्र । अत्र यत् कार्य चापशब्देन कृतं तदेव कार्य चाऽपशब्दं विनैव कृतम् इति चमत्कृतिः ।
1 मसूरितः डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org