________________
श्री जिनभद्रसूरिरचिता
प्रकटोऽसौ-जन्यभरे कृत्वाऽग्रे कृतकवचनरसैमूहम् । यो रञ्जयतीह परं स पिशुनराजः कथं निन्द्यः ? ||७|| शास्त्रमुखे खलदूख (ष) णकथा सर्वथा वृथा न कथम् ? | वेदोद्गारो यदसौ वीणायां वाद्यमानायाम् ||८|| प्रतिभादिफलादिप्रभवकाव्यताम्बूलतोऽस्तु मुखरागः । परमामोदः सज्जनघनसारपरिहादेव ||९|| तेनैव देवमिव संमुखं स्तुवन्त्येव सज्जनं सुधियः । न पुनरहं यैद् वा नरमात्रो नैत्यम्बुधेः पारम् ॥१०॥ किन्तु सतां स्तुतिकारानमलधियः कतिपयानहं स्तौमि । भवति हि विशुद्धबुद्धेः सिद्धिः सिद्धाभिघातोऽपि ॥ ११ ॥ सारोद्धारं विधातुं प्रबलकलिमरुद्भ्रान्तसिद्धान्तपोता
दादायाऽऽदाय किञ्चित् प्रकरणगणनौवीथिका पूर्यते यैः । संसाराम्भोधिमध्ये परहितकरणैः स्वार्थमभ्युद्धरन्तः
Jain Education International
सन्त: सांयात्रिकास्ते शिवमभिलषतः प्रीतये कस्य न स्युः १ ॥१२॥ वीरजिनेशदिनेशेऽस्तमिते केवलविधौ क्रमात् क्षीणे ।
कः प्रकरणगणदीपालिकया हरिभद्रसूरिसमः १ ॥ १३ ॥
१. 'प्रकट : ' इति विशेषणं पिशुनराजस्य । असौजन्य भरे असज्जनतासमूहे यः प्रकटः अथवा प्रकटोऽसौ जन्यभरे इत्यपि विभागः, जन्याः वरमित्राणि भाषायां 'जानैया' इति प्रसिद्धाः । तेषां भरे समूहे यः प्रकटः इत्येवमपि वाच्यार्थः ।
[ प्रथमः
२. पुरस्तात् ।
३. ‘रसम् ऊहम्' इति पदविभागः ! ऊहं तर्कम् । कृतकानि कृत्रिमाणि वचनानि यस्मिन् रसे तादृशम् ऊहम् ।
४. शास्त्रादौ खलदूषणानां कथा वृथा न, यथा शास्त्रादौ खर-दूषणनाम्नां दानवानां कथा वृथा न । कथं वृथा न ? इत्यस्य उत्तरम् उत्तरार्धे-सा वीणायां वाद्यमानायां मङ्गलरूपो वेदोद्गारः ।
५. [ प्रतिभा १, श्रुतप्राचुर्यनैर्मल्यम् २, कवित्वाभ्यासश्चति ३ । ताम्बूले फलम् १, पर्णम् २, चूर्णश्चति ३ 1] फलम् - जातिफलम् जायफळ, पर्णम् जावन्त्रीपत्रम् । चूर्णः चूनो । घनसारः कर्पूरम् ।
"" प्रज्ञा नवनवोल्लखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ।। "
६. यतः वानरमात्रः, यद्वा नरमात्रः । ७. सिद्धकवीनाम् अभिधा नामोच्चारणं ततः । ८. केवलज्ञानरूपे चन्द्रे ।
1 प्रकasar खल | 2 याह्नाय खल |
-काव्यानुशासन- प्र० अ० ३, सू० वृ० ।
For Private & Personal Use Only
www.jainelibrary.org