________________
उच्छ्वासः]
मदनरेखा-आख्यायिका यद्योगतः समुदिता सुरसार्थयुक्ति
दृष्टेः पथि स्वयमुपैति सदा-नवाऽपि । व्याख्यानभूरिव जिनस्य मुदेऽस्तु सा वाग्
मुष्टौ स्थितं सरसतामरसं वहन्ती ॥४॥ दितदर्पकोपमानामर्भुतशोभनरसार्थललितपदाम् । गामङ्गसङ्गचङ्गां जिनतनुमिव गणभृतां वन्दे ॥५॥ गुरुपादाः सन्तु मुदेऽस्माकं नालीकसमतया कलिताः ।
धृतसकलशास्त्ररेखा नैतराजसभी विधूतमलाः ॥६॥ १. यस्याः संबन्धतः यस्याः व्याख्यानभुवः संवन्धतः, अथवा यस्याः वाचः सरस्वत्याः संबन्धतः।
२. व्या० पक्षे सुराणां देवानां सार्थस्य समूहस्य युक्तिः संमेलनम् , दृष्टेः पथि स्वयं समायाति, अर्थात् व्याख्यानभूमौ सुराः प्रत्यक्षं दृश्यन्ते अनायासेन । वा० पक्षे सु-रस-अर्थ-युक्तिःसुन्दराणाम् रसानाम् अर्थानां च युक्तिः-संमेलनम् दृष्टे: ज्ञानस्य पथि स्वयं समायाति | "दृष्टिः ज्ञाने अक्षिण दर्शने' (हैम० अने० द्विस्वरकां० श्लो० ९३)
३. व्या० पक्षे दानवैः सहिता सदानवा सुरसार्थयुक्तिः । श्रीजिनस्य व्याख्यानभुवि सुराः दानपाश्च जिनवाणी श्रोतुं समागच्छन्तीति जैनप्रवादः । वा० पक्षे सदा नित्यं नवा अभिनवा नित्यनूतनरूपा सरस्वती ।
४. व्या० पक्षे सुवर्णकमलेष समुपविश्य श्रीजिनः उपदिशति अतः व्याख्यानभः 'सरसतामरस वहन्ती' इति व्य देष्टुं शक्यम् , अथवा व्याख्यानभुवि पञ्चवर्णानां पुष्पाणां वृष्टिर्जायते-(अभि० चि० देवा० का १, श्लो०६३) इति हेतोरपि इदं विशेषणं व्याख्यानभुवः समुपपन्नम् । वा० पक्षे वागदेवी हस्ते तामरसं धारयन्ती एव संमता ।
५. दितः खण्डितः दर्पः, कोपः, मानः यया ताम्-यस्या गो:-वाण्याः-श्रवणेन दर्यादयः खण्डिता भवन्ति एतादशी गाम्-वाणीम् ।
६. यस्यां वाण्याम् अद्भुतः, शोभनः, रसः तादृशश्च अर्थोऽपि यस्यां वाण्यां तथा यस्यां ललितानि पदानि तादृशीं गाम् ।
७. वाणीम् ।
८. यथा जिनतनुः अज्ञानां शरीरावयवानां सङ्गेन चङ्गा तथा अङ्गानां द्वादशाङ्गीरूपाणाम् शास्त्राणां सङ्गेन गौः अपि चङ्गा-मनोहरा।
९. नालीकम् कमलम् तत्समतया-तत्सादृश्येन कलिता युक्ता अर्थात् कमलसमाना:-यथा कमलं निलेपम् तथा निर्लेपा:-कषायलेपरहिताः-निःस्पृहाः । यथा कमलं सुगन्धयुक्तं सुशोभनं च तथा गुरवः वाणीसुगन्धयुक्ताः सुशोभनाचारयुक्ताश्च ।
१०. अत्र 'नतराजसभाः' 'विधूतमलाः' इति विशेषणद्वयं स्पष्टार्थम् । 1 °भावधू डेखल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org