________________
श्रीजिनभद्रसरिरचिता
[ प्रथमः याऽलङ्-कोपवनोदयक्षयविधौ ख्याता निमित्तं परं
या सत्यादिपदं न-रामरहिता या निर्वृतेः कारणम् । या पूर्णाङ्गस् मुल्लसत्कुशलवागज्ञाता संभामण्डला
प्रीतो यामभि सा जिनेशभणितिः शीतेव शं वः क्रियात् ॥३॥ १. जिनेश णितिः-जिनेशवाणी-कोपवन दयक्षयविधौ अलम् समर्था । शीता-लकोपवनोदयक्षयविधौ परं निमित्तं ख्याता । अत्र 'यालङ्कोप'शब्दस्य वाणीपक्षे ' या अलं कोप° ' इति पदच्छे दः, शीतापक्षे 'या लङ्कोप ' इति । रामानुचरेण हनुमता सीतां निमित्तीकृत्यैव लङ्काया उपवनानां विनाशः कृतः इति रामायणे सुप्रसिद्धम् ।
२. सतीनां सर्वासां सीता आदिरूपा अतः सत्यादिपदम् । जिनेशभणितौ च सत्यम् , शौचम् , आर्जवम् , मार्दवम् इत्येतेषां संयमधर्माणाम् सत्यस्य :आदिरूपं स्थानम्, अतः सा भणितिः सत्यादिपदम् । अत्र 'भूत्यादिपदम् ' इति पाठान्तरम् डेप्रतौ । 'भूत्यादिपदम् ' भूत्याः लक्ष्म्याः आदिपदं जिनेशभणितिः, अत्र लक्ष्मीः निर्वाणरूपा । सी० पक्षे सतीस्मरणं भूत्या लक्षभ्या निमित्तं लोके प्रसिद्धम् , इत्येवं शीता अपि भूत्यादिपदम् । अत्र त्यादिपदेन अथवा भू-त्यादिपदेन सहिता भणितिः इत्येवमपि अर्थ: सकरः । त्यादिपदं च व्याकरणापेक्षया धातुरूपाणि नामरूपाणि इत्यादयो विविधाः शब्दप्रयोगाः 'भू-त्यादि 'शब्देन 'भू'धातुः तथा त्यादिपदं संगमनीयम् । अथवा 'उपन्ने इ वा विगमे इ वा धुवे इ वा' एवंरूपायां जिनेशभणितिमूलरूपायां त्रिपद्यां भूतिःउत्पादः आदिपदम् , तेन भगितिरपि भूत्यादिपदेन विशिष्यते । ‘पद' शब्दस्य अजहल्लिङ्गत्वाद् उभयत्र नपुंसकता अविरुद्धा ।
३. भ० पक्षे नराणाम् अमराणां च हिता । सी० पक्षे सीता रामरहिता न-क्वापि सीता रामरहिता न दृश्यते इति रामायणे वर्तमानकाले चित्रिते च रूपे सुप्रसिद्धम् । नराऽमरहिता तथा न रामरहिता इत्येवं द्विधा पदविभागो बोध्यः ।
४. उभयपक्षेऽपि एतत्पदवाच्योऽर्थः सुसंगतः प्रतीतश्च ।
५. पूर्णाङ्गानि समस्तद्वादशाङ्गयादिशास्त्राणि तैः येषां समुलसन्ती कुशला वाक् तैः महापण्डितैः भणितिः ज्ञाता । शी० पक्षे पूर्णाङ्गषु समुल्लसन्तौ कुश-लवरूपौ पुत्रौ यस्याः सा एवंभूता सीता । कुशलवा ग् ज्ञाता इत्येवम् अन्वयः सीतापक्षे । तत्र ज्ञाता-प्रसिद्धा । 'ग्' इति व्यञ्जनं न कमपि अर्थ सूचयति, चित्रकाव्यत्वेन अत्र 'ग' इत्यस्य वाक्यशोभार्थमेव उपयोगः ।।
६. भ. पक्षे भामण्डलेन सहिता । “भामण्डलं चारु च मौलिपृष्ठे" (अभिधानचिन्तामणि-देवाधि० कां० १, श्लो० ५९) इत्येवं जिनेशभणितौ भामण्डलं प्रतीतम् । शी० पक्षे स्वसहोदरेण भामण्डलेन सहिता ।
७. अत्र 'शीता 'पदं रामपत्नी सतीशिरोमणिं सीतां सूचयति "जानक्यां शीता तालव्यदन्त्ययुक्” (शब्दरत्नाकरः तृ० कां० श्लो० २४१)
1 भूत्यादि डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org