SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अहम् | श्री जिनभद्रसूरिरचिता मदनरेखा - आख्यायिका अज्ञातनामकपूर्वाचार्य कृतया पं० बेचरदास दोशीकृतया च टिप्पण्या समलंकृता । *** * Jain Education International प्रथम उच्छ्रवासः । मुदमुदयवशाद् यः साधुचक्रस्य दत्ते ग्रहमधिकृतदोषं हन्ति पूर्वा गतो यः । स्फुरति जगति यस्मात् केवलालोकलक्ष्मीः स जिनदिनपतिः स्ताद् भूयसे श्रेयसे वः ॥१॥ प्रशमविटपिकन्दः सिच्यमानोऽपि यस्तै— र्घनरसकुचकुम्भः सङ्गमप्रेयसीभिः । अभिमतमिव तासां प्राणनाथस्य रागा कुरमपि न वितेने स श्रिये वोऽस्तु वीरः ॥२॥ *[ ] एतत्कोष्ठकान्तर्गता टिप्पणी पूर्वाचार्यकृता दर्शिता, शेषा पं० बेचरदास दोशीकृतेति विज्ञेयम्। १. जिनपतिपक्षे साधुः जैनमुनिः, दिनपतिपक्षे साधुः सज्जनः । २. जि० पक्षे देशनासमये पूर्वी दिशं समासीनः देशनां कुर्वन् कदाग्रहरूपं दोपं हन्ति, दि० पक्षे पूर्वस्यां दिशि गतः अन्यग्रहदोषं हन्ति । ३. जि० पक्षे केवलालोकः केवलज्ञानम्, दि० पक्षे केवलालोकः संपूर्णः प्रकाशः । प्रशंसितवान् । तत् श्रुत्वा देवराजवचनं मिथ्या कर्तुं प्रयासं कृतवान् । तत्प्रसङ्गे ४. श्रीमहावीरचरिते संगमनामकस्य देवस्य कथा प्रसिद्धा, तद्यथा— कदाचिद् देवराजसभायां स्वयं देवराज एव श्रीमहावीर भगवतः मानसदृढतां भूरि भूरि 'देवबलस्य अग्रे मानवबलं कियत् ?' इति विचार्य संगमो देवः देवबलं च प्रबलं ख्यापयितुं श्रीमहावीरं ध्यानात् चालयितुं प्रबलं संगमेन महावीरं पराजेतुं कामसेना प्रेरिता, तत्र अप्सरसोऽपि तदर्थम् उत्तेजिताः, तथापि श्रीमहावीरो न लवमात्रमपि चाञ्चल्यं प्राप्तः । संगमः निजप्रेयसीरूपं देवीगणं सहावभावैः निजस्तनादिस्पर्शादिभिश्व तथा अन्याभिश्च कामचेष्टाभिः श्रीमहावीरं चालयितुं प्रेषितवान् तथापि निज प्रेयसीरूपो देवीगणः प्रशमविटपिकन्दरूपे महावीरमनसि रागाङ्कुरं जनयितुं विफल एव जातः इति वृत्तान्तं समालम्ब्य अत्र पद्ये कवेः इयम् उक्तिः । ५. संगमदेवस्य । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy