________________
२०८
मिथिलायां दह्यमानायां न मे दयति किञ्चन । विप्र आह-नगर्यां प्राकारं कारय । मुनिना उक्तम् - संयमपुरे उपशमप्राकारो विहितः नययन्त्रसंयुतः । इत्यादि बहुविधं भणितोऽपि यदा एष न चलति तंदा प्रत्यक्षीभूय नमिं नत्वा इन्द्र इदमवदत् । तवैव श्लाध्यते गोत्रं सत्त्वं यस्यासमं मुने ! |
यश्च त्वं मोहपङ्केन न कोशमिव लस्य से (लिप्यसे ) ॥ १ ॥
इत्येवं तं हरिः स्तुत्वा वन्दित्वा त्रिःप्रदक्षिणम् ।
उत्पपात नभो देवो दीप्यमानमणिकुण्डलः ॥ २ ॥
एवं व्रतं परिपाल्य नमिः शिवं जगाम । मदनरेखा अपि चारित्रं शीलं [च] परिपाल्य त्रिदिवं जगाम ॥
इति शीलवते मदनरेखामहासती - कथानकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org