________________
-२०७
तां नमाम । राजा प्राह-आर्थे ! किमेतत् उग्रतपः प्रारब्धम् । सुव्रता राज्ञा इति पृष्टा निजं वृत्तान्तं कथयामास । राज्ञा उक्तम् । कुत्र अधुना स मम लघुसहोदरः । आर्यया गदितम् । बाह्ये येन त्वं रोधितोऽसि । ततो हर्षात् निःसृतो बाह्ये राजा चन्द्रयशाः । नमिराजापि निजं वृद्धबान्धवं ज्ञात्वा राजा ? हृष्टो बभूव । द्वावपि बान्धवौ संमुखमायातौ । ज्येष्ठवान्धवेन उत्थाय नमिः सस्वजे । वृद्धभ्राता ऊचिवान्-वत्स ! पितुर्मरणं विलोक्य मम राज्ये द्वेषः, परं राज्यधराभावात् इयत्कालं विलम्बितः । अधुना त्वं राज्यमलंकुरु । अहं दीक्षा ग्रहीष्यामि । इतिवाक्यैनमिराजानं प्रतिबोध्य-राज्ये अभ्यषिञ्चत् । चन्द्रयशा राजा दीक्षा जग्राह । नमिराजा सूर्य इव तपति । अन्यदा पाण्मासिको दाहज्वरो नमः उत्पन्नः । औषधमन्त्रयन्त्रादिउपायसहस्रैरपि न उपशाम्यति । ततो देव्यः स्वयं तदर्थं चन्दनं घर्षयन्ति । तद्बाहुवलयश्रेणिक्वाणैर्नमेमहती अरतिर्जायते । ततस्तस्य नमें राज्ञ आदेशात् सर्वा अपि राश्यः कङ्कणानि उदतारयन् । क्रमेण यावत् एकैकं कङ्कणं मङ्गलाय करे दधुः ।
अथापृच्छन्नृपो देव्यः किं न घर्षन्ति चन्दनम् । यन्नैष श्रूयते शब्दस्ततो मन्त्रिजनोऽवदत् ॥ १॥ देव्यः सर्वा अपि स्वामिन् घर्षयन्ति घनं पुनः ।
करे त्वेकैकवलयत्वेन नो ज्ञायते ध्वनिः ॥ २ ॥
ततः प्रतिबोधो बभूव । यथा बहुभिः कङ्कणैर्दुःखं जातम् । अल्पैः अल्पेतरं सुखं जातम् । तथा अतो दृष्टान्तात् एकाकित्वे महासुखम् ।
ततोऽसौ यदि मे दाहः प्रशाम्यति कथञ्चन ।
सर्वसङ्गं परित्यज्य तदेकाकी भवाम्यहम् ॥ १ ॥
इति चिन्तयन् नमिराजा सुप्तः । स्वप्ने श्वेतगजारूढमात्मानं पश्यति । अथ प्रभाते शङ्खतूररवे . प्रतिबुद्धो राजा । राजा दध्यौ-अद्य प्रधानः स्वप्नो मया ददृशे । तस्य एवं चिन्तयतः जाती(ति)स्मरणं बभूव । यत् अहं पूर्वभवे चारित्रं पालयित्वा प्राणतकल्पे देवोऽभूवम् । ततश्च्युत्वा नमिर्जातः । राजा निजपुत्रं राज्ये संस्थाप्य दीक्षां गृहीतवान् । शासनदेवतया यतिवेषः समर्पितः । नगर्या निसृतः । इन्द्रेण परीक्षा कृता। विप्रवेषं धृत्वा तत्र समागतः । राज्ञः पुरो भूत्वा एवं वदतिराजन् ! जीवदयां कुरु । एषा पुरी त्वां विना निःस्वामिका कन्दति । तद् इदमयुक्तम् । मुनिराह-लोकः स्वस्वकर्मकृतं फलं प्राप्नोति । ततोऽहमपि स्वकार्य कुर्वे । अन्यचिन्तया कि प्रयोजनम् । विप्रेण उक्तम्-मिथिला दह्यते पुरी । मुनिराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org