________________
२०६
जग्राह । सुश्रु(ब)ता नाम जातम् । दुःक(क)र तपः कुरुते । अथ तस्य बालस्य प्रभावेन राज्ञः पद्मरथस्य सर्वेऽपि राजानो नमिताः । अथ तस्य पुत्रस्य 'नमिः' इति नाम कृतम् । क्रमेण धात्रीभिाल्यमानो ववृधे । अन्यदा यौवने पद्मरथेन राजा नमिः अष्टोत्तरसहस्रकन्यकानां पाणिग्रहणं कारितः । कियद्भिर्दिनैः तं राज्ये निवेश्य आत्मना उपशमबलात् क्षीणकर्मा शिवं जगाम । नमितभूपालो नमिः [राज्यं] करोति ।
इतश्च यस्यां रात्रौ मणिरथो राजा सोदरं युगबाहुमवधीत् तस्यामेव रात्री मणिरथो राजा सर्पण दृष्टः । मृत्वा चतुर्थनरके गतः । ततश्चन्द्रयशा युगबाहुपुत्रो मन्त्रिभिः राज्ये स्थापितः । चन्द्रयशा राज्यं करोति । अन्यदा नमिराज्ञो भद्रजाती[यः] चतुर्दन्तो धवलः पट्टहस्ती स्तम्भमुन्मूल्य व्यं(वि)न्ध्याटवीं प्रति चचाल । हस्ती मार्गे गच्छन् सुदर्शनपुरासन्नलोकैदृष्टः । विज्ञप्तं चन्द्रयशसो राज्ञः । राज्ञा वशे कृत्य आनीतः स हस्ती । आनीय आलानस्तम्भे बद्धः । नमिराज्ञा तत् ज्ञात्वा सुदर्शनपुरे चन्द्रयशसो विज्ञप्तम् । दूतः प्रहितः । दूतेन चन्द्रयशसो विज्ञप्तम् । दूतस्याने राज्ञा कथितम् ।
न श्रीः कुलक्रमायाता शासने लिखितेऽपि वा ।
खड्गेनाक्रम्य भुजीत वीरभोज्या(ग्या) वसुन्धरा ॥ १ ॥ इति उक्त्वा चन्द्रयशसा राज्ञा दूतो विसृष्टः । सोऽपि गत्वा नमिराज्ञोऽग्रे सर्व कथयामास । कुपितो नमिराजा । सर्वबलेन सन्नह्य सुदर्शनपुरं प्राप्तः । चन्द्रयशा राजापि तस्य संमुखं चचाल । पर शकुनैर्वार्यमाणोऽपि चन्द्रयशा मन्त्रिवचनात् नगरप्रतोलीद्वाराणि पिधाय स्थितः । नमिनगरं वेष्टयामास । चन्द्रयशा नगरमध्ये स्थितः । इदं पापाकरं सुव्रता विज्ञाय तयोः प्रतिबोधार्थ युद्धनिवारणार्थ [च] तत्र आगता । नमिः संग्रामभूमौ तपोधनां वीक्ष्य अभ्युत्थानं चक्रे । राजा भूमौ उपविष्टः । सुव्रता तपोधना तस्य देशनां चक्रे । राजन् ! कुतोऽयं समरसंरम्भः । असारा राज्यश्रीः । भोगा निर्वाहदारुणाः । तत् त्वं संग्रामात् निवर्तस्व । संग्राम मा कुरु । अन्यच्च-निजसहोदरेण सह कः संग्रामः ? । नमिराजा वदति-मम कः सहोदरः । सुव्रता वदति-चन्द्रयशा राजा तव सः [सहोदरः । तस्य प्रत्ययाथै मुद्रां रत्नकम्बलं च दर्शयामास । तथापि संग्रामात् न निवर्तते । ततः सुव्रता चन्द्रयशसः पार्श्वे गता । तेन उपलक्षिता मम माता महासती च । महाविनयेन नमस्कृता । भक्त्या आसनं दत्तम् । अन्तःपुरीजनः सर्वोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org