________________
२०५ तिष्ठति । प्रज्ञप्तिविद्यामुखात् सर्व प्ररिज्ञान(त)म् । त्वं मम राज्यमलंकुरु । मदनरेखया तत् श्रुत्वा चिन्तितम्-शीलरक्षार्थमुपायं करोमि । राश्या आत्ममनसि विमृश्य कथितम् । प्रथमं मां नन्दीश्वरयात्रां कारय । पश्चात् तव कथितं करिष्यामि । ततो मणिप्रभविद्याधरस्तस्या वाक्येन परितुष्टः, तां नन्दीश्वरे नीत्वा शाश्वतचैत्यानि वन्दापयामास । तत्र मणिचूडमुनीश्वरं प्रणम्य मणिप्रभो मदनरेखा चोभौ तस्य अग्रे उपविष्टौ। स मुनि नेन मदनरेखावृत्तान्तं ज्ञात्वा धर्मदेशनापूर्व मणिप्रभं स्वपुत्रमबोधयत् । मणिप्रभो मदनरेखां प्रति प्राह-अद्यप्रति त्वं मदीया भगिनी, तव आज्ञाकारी किंकरोऽस्मि । अत्र मणिप्रभप्रतिबोधः । ततो मदनरेखया पुत्रोदन्तं मुनिः पृष्टः । पूर्व द्वौ राजपुत्रौ अभूताम् । तौ मृत्वा देवौ बभूवतुः । तयोर्मध्यात् एकश्च्युत्वा राजा पद्मरथो बभूब । द्वितीयस्तव सुतोऽभवत् । ततस्तेन पद्मरथेन अश्वापहृतेन तव पुत्रः आत्मप्रियायाः पुष्पमालायाः समर्पितः । पूर्वभवस्नेहात् पद्मरथेन राज्ञा मिथिलायां महान् प्रवेशमहोत्सवः कारितः । मुनीश्वरे एवं वदति कोऽपि विमानाधिरूढो महद्धिको देवो देवांगनानृत्तगीतकौतुकानन्दितचित्तः प्रवरभूषणो मदनरेखां त्रिः प्रदक्षिणीकृत्य प्रणम्य पश्चान्मुनि नत्वा पुरो निषण्णः तद् असंबद्धं वीक्ष्य मणिप्रभस्तमुवाच । देवानामपि यदि एषा नीतिः ततः कस्याग्रतो ब्रूमः । चतुर्ज्ञानधर चारुचारित्रं मुनिपुङ्गवं हित्वा त्वया स्त्रीमात्रस्य कथं पूर्व प्रणामः कृतः । अथ यावत् देवो वदति तावत् मुनिर्जगो । एवं मा ब्रूहि । अयं देवो न उपालम्भयोग्यः । यतः मणिरथो राजा भ्रातरं युगबाहुं जघान अस्यां मदनरेखायां लुब्धः । अनया मृत्युकाले कृताराधनो युगबाहुः पञ्चमकल्पे देवो बभूव । अतः कारणात् अस्य देवस्य मदनरेखा धर्माचार्यस्य स्थाने । यो येन शुद्धधर्मे स्थाप्यते स तस्य गुरुः इति उक्ते अनन्तरं विद्याधरः सुर क्षमयामास । अथ सुरो राज्ञी प्राह-भद्रे ! तव इष्टं किं करोमि । राज्ञी वदति-मम मोक्ष एव प्रियः, तथापि मिथिलायां मां शीघ्रं नय । तत्र पुत्रमुखं दृष्ट्वा धर्मकर्मणि उद्यमं करिष्ये । युगबाहुसुरेण राज्ञी मिथिलायां नीता यत्र श्रीमल्लिनाथस्य त्रीणि कल्याणकानि जातानि जन्म-दीक्षा-केवलज्ञानादीनि । अतः कारणात् प्रथम तीर्थबुध्ध्या अर्हच्चत्येषु द्वावपि गतौ । अथ तत्रैव प्रत्यासन्नोपाश्रये साध्वीवीक्ष्य द्वावपि प्रणेमतुः । ताभिः साध्वीभिः तयोरग्रे धर्मः कथितः । देशनाप्रान्ते देवेन उक्तम्-आगच्छ मदनरेखे ! यथा राजकुले गत्वा पुत्रं दर्शयामि । मदनरेखा वदति-भवहेतुना स्नेहेन किं प्रयोजनम् ! एतासाम् एव साध्वीनां चरणाः शरणं मम । इति उक्ते युगबाहुदेवोऽपि साध्वीः प्रणम्य दिवं गतः । मदनरेखा दीक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org