________________
२०४ ततः ऋदितुमारेभे दुःखी चन्द्रयशा भृशम् ।
दध्यो मनरेखापि मन्दभाग्या हतास्मि हा ॥१॥
घिर में रूपं मयाऽत्र दृष्टया गुरूणामपि विकार याति मानसं । मन्निमित्तं हतो येन निजभ्राताऽपि ।
गृहीष्यते च मां तस्मात् मम स्थातुं न युज्यते । तद् गत्वा क्वचिदन्यत्र पारत्र्यं कार्यमाश्रये ॥१॥ अन्यथा पुत्रमप्येष मम पापो हनिष्यति ।
मन्त्रयित्वेति सा पुत्रे शोकात निरगात् ततः ॥२॥ . निशीथे दिशि पूर्वस्यां गच्छन्त्याऽऽप महाटवीम् । गता रात्रिः ।
एकाकिनी द्वितीयेह्नि प्रापमस्तं दिनेश्वरः । चक्रे वनफलैस्तत्र प्राणवृत्तिं . जलं पपौ ॥३॥ प्रत्याख्यायाथ साकार भक्तमध्वश्रमादिता ।
खेदच्छेदार्थमेकस्मिन् सुष्वाप कदलीगृहे ॥४॥ तत्र रजनी पतिता । नमस्कारप्रभावात् व्याघ्रादयो जीवा दूर गताः । अर्द्धरात्रौ च कदलीगृहे सुषुवे पुत्रं सर्वलक्षणसंपूर्णम् । प्रभातसमये तस्य पुत्रस्य करे युगबाहुनामाङ्कितां मुद्रां प्रक्षिप्य रत्नकम्बलेन तं पुत्रमाच्छाद्य चीवराणि प्रक्षालयितुं सरोवरे गता । तत्र यावत् स्नानं करोति । तावत् जलगजेन आकाशे उल्लालिता ।
अथ नन्दीश्वरद्वीपे गच्छता विद्याधरेण आकाशात् पतन्ती मदनरेखा राज्ञी गृहीता । तेन वैताढयपर्वतं प्रति नीता राज्ञी विद्याधर प्राह-भो महासत्त्व ! रात्री मम पुत्र उत्पन्नोऽस्ति । तं पुत्रं कदलीगृहे मुक्त्वा स्नानं कर्तुं चीवराणि क्षालयितुं यावत् अहं सरोवरे आगता तावत् जलगजेन शुण्डाग्रेण धृत्वा आकाशे उल्लालिता। पतन्ती त्वया गृहीता । स बालः केनापि त्वा(श्वा)पदेन. हनिष्यते अथवा आहार विना स्वयमेव विपत्स्यते । तत् स. बालः अत्र आनीयताम् अथवा मां तत्र नय । प्रसादं कुरु । विद्याधरः प्राह-यदि मां भर्तारं प्रतिपद्यसे ततोऽहं तव आदेशकारी भवामि । राज्ञी प्राह-त्वं कः । तेन कथितम्-वैताढयपर्वते रत्नावहपुरे :मणिचूड नाम विद्याधरः । तस्य पुत्रोऽहं मणिप्रभः । पिता मां राज्ये निवेश्य व्रतमाददे । साम्प्रतं स मुनिन्दीश्वरद्वीपेऽस्ति चैत्यानि वन्दितुं गतः । तं वीक्षितुं व्रजता मया त्वं दृष्टा । अपरंस तव पुत्रः तुरगापहृतेन मिथिलापतिना पद्मरथेन वने दृष्टः । तं पुत्रं [स पुत्रो] गृहीत्वा पुष्पमालायाः स्वप्रियायाः समर्पितः। तया सुतवत् प्रतिपालितः सुखं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org