________________
२०३
समीपवर्तिनो भटाः । किमेतदिति जल्पन्तो राज्ञा मणिरथेन उक्ताः । मा बिभ्यत मा बिभ्यत प्रमादेन मम करात् खड्गो निपपात । ततो भटैश्चरितं ज्ञात्वा बलादपि मणिरथो राजा गृहे नीतः। युगबाहुपुत्रस्य चन्द्रयशसः तत्स्वरूपं निवेदितम् । सोऽपि हाहारवं कुर्वन् वैद्यानादाय उद्याने जग्मिवान् । आत्मीयपितुर्वणकर्मादिकमकारयत् ।
क्षणेनास्य स्थिता वाणी नेत्रयुग्मं निमीलितम् ।। अङ्गं बभूव निश्चेष्टम् पाण्डुरं रक्तनिर्गमात् ॥ १॥ ज्ञात्वा मदनरेखा [च] भर्तुः प्राणान्तिकां दशाम् ।
तस्य कर्णान्तिके गत्वा जगादेति मृदुस्वरम् ॥ २ ॥ मदनरेखा तु धायमालम्ध्य भर्तुरन्त्याराधनां कारयामास । अहो महानुभाव ! त्वमधुना सावधानो भव । इयं धीरवेला, खेदं मा कार्षीः, कर्मपरिणामो बलवान्, येन यत् पुरा कर्म विहितं तस्य तत् कर्म समायाति । परो निमित्तमात्रम् । पुण्यपाथेयं गृहाण । दुःकृतं सर्वमपि निन्द । मित्रम् अमित्रं स्वजनं परजनं क्षमयस्व ।
तिर्यक्त्वे स[ति] तिर्यञ्चो नारकत्वे च नारकाः ।
अमरा अमरत्वे च मनुष्यत्वे च मानुषाः ॥ १ ॥ ये त्वया दुःखे स्थापितास्तान् क्षमयस्व ।
जीवितं यौवनं लक्ष्मीः रूपं प्रियसमागमः । बलं सर्वमिदं वात्यानतिताब्धितरङ्गवत् ॥ १ ॥ व्याधि-जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म शरणं कोऽपि नापरः ॥२॥ अन्यद् वपुरिदं तावत् अन्यत् धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवः वृथा मुह्यति बालिशः ।। ३ ।। वसा-रुधिर-मांसास्थि-यकृत्-विट्-मूत्रपिते ।
वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः ॥ ४ ॥
अहंदाद्याः (अर्हदाद्यान्) शरणं प्रपद्यस्व । नमस्कारं स्मर । अष्टादश पापस्थानानि व्युत्सृज । जिनधर्म स्मर । श्रीयुगादिप्रमुखान् जिनान् चिन्तय । इत्थम् आराधनां षोढा विधाप्य दयितं निजं मत्सरं त्याजितः (त्याजितवती) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org