________________
૨૦૨
अन्यदा मणिरथेन "राज्येष्टेन मैदनरेखारूपमोहितेन मानसे इति चिन्तितम् । यत् एषा स्त्री सुखेन दुःखेन वा कृत्याकृत्येन मया गृहीतव्या । अतः कारणात् अयं मणिरथो राजा अस्या आवर्जनार्थं पुष्पताम्बूलादि वस्त्रालंकरणादिकं वात्सल्यात् अर्पयति । सा मदनरेखा अपि निर्विकारा सती सर्वं गृह्णाति । अन्यदा राज्ञा दूती प्रहिता । सापि गत्वा मदनरेखामेवं वदति । भद्रे ! असौ राजा तव गुणानुरक्तो मन्मुखात् त्वाम् इदं वदति ।
मां भर्तारं प्रतिपद्य राज्यस्य स्वामिनी भव ।
जा (ज्ञा) ताकूता ततो राज्ञी जगादैवं सेतां मनः ॥१॥
Jain Education International
अन्यास्वप्यभिलाषेण वज्रन्ति नरकं नराः ।
तत् राजन् ! कुरु सन्तोषम् मुञ्च भोगकदाग्रहम् ॥२॥
दूती तस्येतिवाक्यानि राज्ञस्तूर्णं न्यवेदयत् । राज्ञा चिन्तितम् । यावद युगबाहुजीवति तावदेषा मम प्रिया न भवति । तथा करिष्ये यथा भ्रातरमपि व्यापाद्य एनां प्रिया मानयिष्ये । अन्यदा मदनरेखया चन्द्रमाः स्वप्ने दृष्टः । प्रभाते पत्युरग्रे निवेदि - तम् । सोऽप्युवाच देवि ! तव चन्द्रसमानः सौम्याकारः प्रसन्नवदनः पुत्रो भविष्यति । अथ तृतीये मासे तस्या मदनरेखाया गर्भप्रभावेण देवपूजार्थ दानं दातुं दोहदो बभूव । राज्ञा युगबाहुना स दोहदोऽपूरि । ततो वसन्तसमये अन्यदा राजा युगबाहुर्मदनरेस्वया सह क्रीडार्थं गतः । नागरिकजनचर्चरीर्विलोकयन् युगबाहुः कदलीगृहं प्रविवेश । अथ रात्रौ पतितायां मणिरथो राजा दध्यौ । अधुना मदीयोsवसरः । यत् युगबाहुः स्वल्पपरिवारेण वने निशायां सुष्वाप । ततो मणिरथो राजा खड्गं करे कृत्वा युगबाहुप्राहरिकान् पप्रच्छ । भो प्राहरिकाः ! कुत्राssस्ते मम भ्राता युगबाहुः ? । तैरुक्तं, स्वामिन् ! कदलीगृहे शेते । अत्र वने कोऽपि शत्रुर्मम भ्रातरं परिभविष्यति । इति कारणात् असन्तोषेण अहमत्र आगतः । इति ब्रुवाणो राजा कदलीगृहे विवेश । युगबाहुरपि ज्येष्ठभ्रातरं राजानमागतमाकलय्य ससंभ्रममुत्तस्थौ । राज्ञोक्तं वत्स ! एहि । पुरं यामः । अत्र वासो न उचितः । ततः कृतप्रणामो युगबाहुः प्रस्थातुमारेभे । ज्येष्ठभ्राता मम विशेषतः प्रभुः । अनुल्लङ्घ्या अमी इत्यचिन्तयत् । ततः पापधिया राज्ञा अपयशोभयमवगणय्य युगबाहुभ्राता स्कन्धे असिना हतः । अहो ! अक्षत्रमिदं मदनरेखया कूजितम् । युगबाहुं खड्गप्रहारेण हतं ज्ञात्वा धाविताः
•
१ सतावनः B । २ राज्ञा ज्येष्ठेन B । ३ मदनरेखारूपोमोहितः B । ४ पुस्फः B | ५ किं B
For Private & Personal Use Only
www.jainelibrary.org