SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभइसरिरचिता [ पक्षमा द्रष्टुं व्रजन्ती नृपतिं परेषां' तेनेऽन्तरायं निजदर्शनेन ॥४४३॥ वैतालिकानां स्तुतिरुद्धताऽग्रे मन्दा तु पार्श्व कुलबालिकानाम् । स्वैराऽभवत् पौरजनस्य पश्चात् सार्था सकामा सर्वेषा च तस्य ॥४४४॥ अभंकषाऽत्यद्भुतमञ्चसुस्थवाराङ्गनोल्लासितचामरौधैः । रेजे स राजा किरणैरिवेन्दोः कतुं सुखं स्वामिनमापतद्भिः ॥४४५॥ गच्छेल्लो(गच्छल्लो)चनगोचरे मुदमतिकामन् स्पृहां योषितां बन्धूनां परमोत्सवं नयनयोर्दैन्यं द्विषामानने । साधूनामपशङ्कतां हतधियामन्यायभाजां भयं यच्छन्नर्थिजनस्य दानमगमत् प्रासादमुर्वीपतिः ॥४४६॥ चिन्ता राज्यभरस्य मन्त्रिहदयेऽरण्ये निबासो द्विषां आज्ञा मौलितटे महाक्षितिभृताम् , त्यागः करे दक्षिणे । कीर्तिर्दिक्षु, गुणेषु गौरवमसिः कोशे, प्रतिष्ठा नये स्वस्तिश्रीधृतिकीर्तिभिः सह मुदोऽधीयन्त तेनात्मना ॥४४५॥ इति श्री जिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नमिचरित्रपराभिधानायां मुबकायां पञ्चमोच्छ्वासः सम्पूर्णः ।। ग्रन्थाग्रसमल्या........शुभं भवतु, कल्याणमस्तु । सं० १४४१ (?) वर्षे प्राग्वाटज्ञातीय श्रे० वयजलसुत खीमा भार्या खेतलदेसुत ० मांजा भार्या कामलदेपुत्र सा० धानाकेन भा० मोल्ही.... .... युतेन देवकुलपाटकवास्तव्येन स्वयंकृत श्री पञ्चमीलप उद्यापने.... .. ॥ इति पश्चम उच्छ्वासः समाप्तः ॥ १. मार्जारं कटीतटे आरोग्य समागतां तरुणीमेव सर्वे जना द्रष्टुं लग्नाः अतः तेका नृपदर्शने मार्जारयुतया अनया अन्तरायः कृत इति भावः । २. उता-उच्चैः स्वरेण गीयमानत्वात् ऊध्वं गता । ३. सार्था अर्थलाभप्रयोजनबती वैतालिकानां स्तुतिः । ४. कुलवालिकानां स्तुतिः सकामा अभिलाषरूपा अत एव मन्दा पार्श्ववर्तिनी च । ५. पौरजनस्य स्तुतिः सवृणा धर्मसहिता अतः स्वैरा स्वतन्त्ररूपा । ६ ल. प्रति गता अन्या पुष्पिका संवत् १५१६ वर्षे श्रावण सुदि २ दिने तपागच्छे भट्टारकश्री हेमसूरिशिष्य नयचन्द्रगणिना लिखितम् आत्मपठनार्थम्' शुभं भवतु लेखक-पाठकयोः। कल्याणं भवतु भी संघस्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy