________________
उच्छ्वासः]
मदनरेखा-आख्यायिका त्यक्त्वा गृहे स्वं तनयं क्षुधात विलोकयन्ती नृपमन्मथं च । काचित् तदाऽभूत् करुणोपविद्धशृङ्गारपात्रं युगपन्मृगाक्षी ॥४३८॥ गन्तुं प्रवृत्तापि नृपेक्षणार्थ व्यावर्तताऽन्या गुरुमीक्षमाणा । नासत्रपार्तापि न दर्शनेच्छां रोद्धं तु शक्ता क्वचिदेव काचित् ॥४३९॥ क्षामोदरी पीनघनस्तनार्ता मुक्ताकलापे त्रुटितेऽपि वेगात् । मुक्ताफले ह्रियुगे पतित्वाऽप्यन्या न रोर्बु शैकिता कथञ्चित् ॥४४०॥ धम्मिल्लमंत्रास्थ(ल्लमत्र स्व)करेण काचित् स्रस्तं दधाना प्रचचाल बाला । राहुं मुखेन्दुग्रसनप्रवृत्तं यूनां समक्ष विनिगृह्णतीव ॥४४१॥ लज्जामभीष्टामपि कापि हित्वा वैयात्यमिष्टेतरमप्युपेत्य मूर्त स्मरं वीक्ष्य तमाप दृष्टिसृष्टेः फलं दुर्लभमायताक्षी ॥४४२ ॥ बालं विमुच्यैव गृहान्तराले
मार्जारमारोप्य कटीतटेऽन्या । १. गुरुः स्वकीयज्येष्ठश्वशुरादिको वृद्धजनः ।
२. "शकेः कर्मणि" [४।४।७६ ] इति हैमसूत्रेण प्रयोगसिद्धिः। कश्चित् पुरुषः सविनयप्रार्थनापूर्वककथनेन कस्मादपि अनिष्टकार्याद् यदा न निषेधुं शक्यते तदा तस्य पादयोः पतित्वापि निषेधस्याभ्यर्थना यथा क्रियते तथा अत्रापि मुक्ताफलानि क्षामोदर्यास्तरुण्याः अंहियुगे पतित्वाऽपि तां निषेधुं न शक्तानि जातानि । जनसंघर्षवशाद् मुक्ताहारस्य त्रुटितत्वाद् मुक्ताः तरुण्याः पादे पतिता अतः कविना इदम् उत्प्रेक्षितम् ।
३. वैयात्यम्-धृष्टताम् । ४. इष्टतरम्-अनिष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org