________________
श्रीजिनभद्रसूरिरचिता
[ पञ्चमः गोचरमात्मनः सुखसमृद्धये विषयग्राममिव विधायावन्तिविषयग्राम स्ववशम् 'विदेहैकालङ्कारभूतायां सिद्धिशिलायामिव श्रीमिथिलायां गन्तुमारभत । तदागमनपरितुष्टनगरप्रधानैः सूत्रितानि सुत्रामपुरश्रीस्मरणानि तोरणानि, विरचिता विमानभ्रमजनकतया विबुधवनितावश्चका मञ्चकाः, निवेशिताः प्रतिमञ्चं त्रिदशानामपि नयनरञ्जिकाः शालभञ्जिकाः, संस्थापितनमियशःप्रतापवशीभूतसुधाकरदिवाकरकराकाराः करेषु शालभञ्जिकानां सुवर्णरत्नादिमुकुरप्रकाराः, प्रतिपदं सम्पादिता रक्षितदिनकरकिरणप्रवेशा दिव्याम्बरविताननिवेशाः, व्यधीय-त प्रतिस्थानमसमानदन्दह्यमानधनसाराऽगुरुसारधूपधूमस्तोमा विराजमाना धूपघटीसन्तानाः, समसिच्यन्त घनसारादिधूमसमुत्थजलपटलोत्पन्नैरिव गन्धोदकविस्मारितहरिचन्दनाऽऽमोदकथा राजपथाः ।
नरपतिरपि पौरभक्तिमिव नगरसुस्थतामिव निजभाग्यभङ्गिनीमिव तां पुरशोभां पदे पदे वीक्षमाणः, पदे पदे नगरवृद्धाभिराशिष्यमाणः, पदे पदे वराङ्गनाभिः कृताऽऽरात्रिकावतारणाभिरानन्द्यमानो यावत् प्रविशति तावत् समजायत समन्ततः पौराङ्गनाजनचित्तक्षोभः ।
अध्यापितां सद्गुरुभिनितम्बैमेगा मरालस्य गति विहाय । अन्यां पुरस्तां प्रतिपद्य सद्यः पौराङ्गना द्रष्टुमुपाययुस्तम् ॥४३५॥ संस्पर्धमास्येन निजेन सार्ध चन्द्रं कराक्रान्तमिवाऽऽदधाना । आदर्शहस्ता तरुणी समागात् काचित् तदानीं प्रदाय यूनाम् ॥४३६॥ एकत्र नेत्रे स्फुरदञ्जनश्रीबिम्बाधरेऽन्यत्र तथाविधैव । काचिन्महीवासवमीक्षमाणा
शृङ्गारिणी हास्यरस पुपोष ।।४३७॥ १. सिद्धशिलापक्षे विदेहाः मुक्तात्मानः सिद्धा इति । मिथिलापक्षे विदेहाः तन्नामा देशः। २. मुकुर:-आदर्शः । ३. स्पर्धया सहितं चन्द्रम् । ४. कराः किरणाः हस्ताः वा। ५. प्रमदः- हर्षः । ६. मह्यां वासवः-इन्द्रः-नरपतिः । 1 संस्पर्द्धमा ख।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org