________________
उच्छ्वासः
मदनरेखा-भाल्यायिका 'संसारवारिधिविगाहमकारकाणां संसारिणां विघटना घटनाऽप्यनन्ता । दुःखादिवीचिभिरहो ! तदमुं कुरुध्वे
खेदं किमर्थममलं न पुनर्विवेकम् ? ॥४३०॥ अत्रान्तरे प्रदत्तमासनम् विशेषेण वन्दित्वा समस्तमपृच्छयत गर्भपर्यवसानं स्वरूपम् । कथितं च भगवत्या तावद् यावत् 'महाराज ! येन नगरमिदमवरुद्धं समस्तनमिमहीपाल (स नमिः समस्तमहीपाल )वरिष्ठस्तव कनिष्ठः' इति समाकर्ण्य प्रमोदसमुहस,त्पन्नरोमाचकञ्चुको गतः सपरिकरस्तत्सम्मुखम् ।
नमिरपि तथा तमागच्छन्तमालोक्य परमविनयाविर्भावेन नष्टसमस्ताहङ्कारः सकलान्तःपुरपरिवृत एव भूतलन्यस्तमस्तकः पतितः पादयोः, उत्थाप्य च चन्द्रयशसा द्वे अपि हृदये वियोगभयादेकीकर्तुमिव समालिङ्गितः परमप्रमोदेन। महामहोत्सवेन समस्तनागरिकहृदयमिव प्रवेशितो नगरम, कृप्तमद्धतवानपूर्वकं वर्धापनकम् , प्रबर्तमाने च परमानन्दमन्दिरे कियत्यपि काले सुव्रता आर्जि(बि)कादर्शनेन प्रतिबुद्धो भूयानपि भव्यलोकः ।
संसारासारतां ज्ञात्वा निर्वाणस्य च सारतां । महानन्दपदं दीक्षां मिश्चित्य स्वेम चेतसा ॥४३१॥ राज्यं समय मिःशेष ममेरेघ तदैव सः । वैराग्यवासितोऽग्राहि( ग्रहित्) दीक्षां चन्द्रयशा मुदा ॥४३२॥ गीतार्थत्वं प्रपद्यादी तपोऽनुष्ठाननिष्ठधीः । विजहार महीपृष्ठे निरीहः सुव्रता यथा ॥४३३॥ राज्यद्वय नमिरपि प्रतिपद्य सद्यो निष्कण्टकां वसुमतीमखिलां चकार । भानौ दधत्युदयमप्रतिमप्रतापे
किं क्वापि हन्त घटते तमसः प्रचारः ! ॥४३४॥ विस्तारिताद्भुतधाम्ना साम्ना, यशःप्रधानेन दानेन, निरस्तखेदेन भेदेन, समस्ता ऽसाध्यसिद्धिविधिप्रचण्डेन दण्डेन च वशीकृत्य सकलमपि विपक्षपक्षम् निःशेषकरण
१. निःशेषकरणगोचरम्-करणानि-इन्द्रियाणि अतः समग्रेन्द्रियगोचरम् । विषयग्रामम्-शब्दादिविषयग्रामम् । विक्षपशम्-निःशेरकरणगोचरम्-समस्तप्रकारकयुद्धगोचरम् । अत्र 'निःशेषकरण' इति तथा 'निःशेषक-रण' इति द्विधा पदविभागः ।
1 कारणानाम् डे । 2 भवत्या डे | 3 यावद् येन महाराज नगर” डे । 4 दुश्चरो” ख । 5 ‘साध्यविधि डे । 6 °न वशों खल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org