SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [पञ्चमः 'समस्तकविभूषकः सुमनसां महामोदभून वालकविराजितः प्रतिपदं सदालिप्रियः । गिरां ध्वनिरिवागतो मुखसुधाकरश्रीप्रदः क्क देवि ! कबरीभरस्तव किमीदृशं मस्तकम् ? ॥४२५॥ ये स्निग्धाञ्जनलक्ष्मी भ्रल्लासवशेन लोचने दधतुः । अधुना निरञ्जनपदं धिग् देवम् किं न दर्शयति ? ॥४२६।। विगलितकरशस्त्रे नश्यतीन्दौ प्रभाताद्धततररणरङ्गात् पातयित्वेव दने । तव मुखसुभटौ यो कर्णपाशान्तराले क नु सपदि गतौ तौ रत्नताडकवीरौ ? ॥४२७॥ या सच्छायाऽधरा धरा नागवल्लीदलादिभिः । अदृश्यमाना सा देवि ! जाता सर्वाङ्गदाहिका ॥४२८॥ हा देवि ! युवराजेन परलोकमुपेयुषा ।। समं गता तवाङ्गश्रीस्त्वं व्रताय पुनः स्थिता ॥४२९॥' समाकर्ण्य तमाक्रन्दकलकलं सञ्जातहृदयक्षोभः समागतः सान्तः पुरो नरेन्द्रो भूतलललितमौलिना प्रणम्य प्रवृत्तो रोदितुम् , सम्बोधितश्च भगवत्या, तद्यथा - १. अत्र कबरीभरः उपमेयम् , गिरां ध्वनिरिति उपमानम् । 'समस्तकविभूषकः' इत्यादीनि उपमेय-उपमानविशेषणानि । कवरीभरपक्षे समस्तकविभूषकः-मस्तकेन सह यानि आगनि तानि समस्तकानि तेषां सर्वेषां विभूकः-समस्तशरीरशोभावर्धकः । गिरां ध्वनिपक्षे समस्तानां कवीनां विभूषकः समस्तकविविभूषकः । क० पक्षे नवालकविराजितः-नवाश्च ते अलकाश्च नवालकाः तैः विराजितः । गिरां ध्वनिः बालकविना न राजितः । बालकवयो हि गिरां ध्वनेः ध्वनिरूपार्थानुसारकं प्रयोग कर्तुम् असमर्था अत एव गिरां ध्वनिः न बालकविराजितः, अत्र ब-बयोः साम्य ज्ञेयम् । २. स्निग्धं यद अञ्जनं तेन लक्ष्मी-शोभान् अथवा रिनग्धां-स्नेहयुक्तां जनलक्ष्मी-जनशोभांजनशोभाविधायिकां लक्ष्मीम् इत्यपि । ३. इन्दो-चन्द्रे विगलितकरशस्त्रे-नष्टकिरणरूपरास्त्रे, नश्यति-पलायमाने सति, प्रभुताद्भुततररणरना-प्रभातसमये संजाताद् अद्भुततराद् रणरङ्गाद् युद्धस्थानात् पातयित्वा इव तव मुखसुभटरूपी रत्नताकवीरौ यो कर्णपाशान्तराले त्वया दधे नु ती सपदि क्र गतो ? ४. छाया-कान्तिः, छायासहितौ अधरौ ओष्ठौ यस्यां सा सच्छायाधरा तादृशी धरा-भूमिःस्थानम् इति आशयः अर्थात् यत् स्थानं सच्छायाधरम् आसीन् तद् अधुना दृश्यते इति परमार्थः । - 1° जितप्रंखला। 2 दृशं समस्तम् ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy