SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका अमुण्यात्मा मूलं प्रतिपदमधोधस्तमपि यत् नयत्येव क्वासो भवति महनीयो मतिमताम् ॥४२३॥ ततो विचारयतु महाराजः, चिन्तयतु पुनरुक्तं स्वपरलोकहितम्, करोतु मम वचनम् , यसो विरोधः सर्वथा न केनापि साधं क्रियमाणः समुचितः, किं पुनः स्वकीयेन ज्ञानिना ! तत्रापि किमुच्यते निजसोदरेण ? । अयं हि चन्द्रयशा महाराजः सर्वथा तव ज्येष्ठसोदर्य एव । दूतोदिताक्रमिकवचनश्रवणजातसन्देहेन मिथिलापतिना सविनयमभ्यधीयत-'भगवति ! कथमिव ?' कथितं च तया सकलमपि मणिरथप्रभृतिकं मुद्राल कृतमुक्ततत्कालजाततद्वियोगगर्भप्रस्तुतविरोधपर्यवसानं चरित्रम् । धात्रीसमर्पितयुगबाहुनामाङ्कितमुद्रानिरीक्षणसञ्जातप्रत्ययेनापि मानबहुलतयाऽऽच्छादितविनयदिनकरेण जल्पितं नमिना-'भगवति ! सत्यमिदम् नान्यथा भगवतीवचनम् । केवलमवधारयतु ममापि विज्ञप्तिकामेकाम् । एतावन्तमहं विधाय समरारम्भं निवृत्तोऽस्मि चे-। दारूढः पतितस्तदेति लघुता सम्पद्यते मे ध्रुवम् । तस्मान्न द्विपदे नमामि स पुनः पार्श्व ममागच्छतु । . .. ज्येष्ठस्येह न लाधवं कथमपि प्रायेण सञ्जायते ॥४२४॥' . तद्वचनमाकर्ण्य 'यथातथा प्रतिबोधनीयावेतो तनयौ' इति गता प्रच्छन्नद्वारिकया चन्द्रयशोराजभवनम् । प्रविष्टमात्रैवोपलक्षिता सकलेनापि परिजनेन 'हा! देवि! स्वामिनि ! किमेषाऽवस्था ? कोऽयमतिदुष्करः समारम्भः ? किमस्य सुकुमारस्य शरीरस्य समुचितोऽयं वघटितकठिनजनोचितो व्यापारः ?' इत्याक्रन्दमानेनाभ्यधायि च-- अथवा न्यग-तिर्यग् मार्ग रुणद्धि इत्येवं विरोधः, न्यग्रोहकः, मार्गरोधको वा । विरोधः बीभत्स . फलदः इति तु प्रसिद्धम् । मध्ये प्रविशतीं मित्रस्य रुचिं स्थगयति-न कोऽपि सखा मध्ये समागत्य समाधानविधान य प्रयतते । अमुष्य विरोधस्य मूलम् आत्मा तमेव आत्मानमेव असौ विरोधः अधोऽधः नयति, अतः असौ विरोवः मतिमतां व महनीयो भवति ? न क्वापि । न्यग्रोधपक्षे न्यग्रोधः-वरः विरोधः, विभिः-पक्षिभिः रुधः-यत्र बहवः पक्षिणो वसन्ति । न्यग्रोवस्य-वटस्य फलं बीभत्समेव भवति, न मनोहरम् । न्यत्रोधः सघनछायायुक्तत्वेन मित्रस्य-सू स्य, रुचिकान्ति मध्ये प्रविशती स्थगयति । अमुष्य विरोधरूपस्य न्यग्रोधस्य मूलं तमेव न्यग्रोधं प्रतिपदम् अधोऽधः नयति-बटस्य मूलं वटमेव अधोऽधः नयति इति प्रसिद्धम् । १. द्विपदे-चतुर्थ्यन्तं पदं पादद्वययुक्ताय-मनुष्यमात्राय । 1 ततो महाराज! विचारयतु चिन्तडे । 2 विरोधः न केनापि डे। 3 यतु वि डे। 4 विज्ञप्तिकाम् खल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy