________________
१६२
श्रीजिनभद्रसूरिरचिता
[ पश्वमः सेत्यादरोऽप्यसत्या दरोऽप्यसौ भूपते ! विधातव्यः । भैवतोये भवतो येन भवति न निमज्जनमगाधे ॥४१७॥ रावणोऽपि भवनककण्टको दर्पकोपहतधीरविक्रमः । मार्यते स्म परदारलम्पटो दर्पकोऽपहतधीरविक्रमः ॥४१८॥ पद्मालया मनागपि न महापद्मालया क्वचिद्भन्निा । स्तोको वाऽस्तोको वा तदमुप्या युज्यते त्यागः ॥४१९॥ मन्दारपारिजातक-हरिचन्दन-कल्पवृक्षसन्तानाः । विदधति सुमनःप्रीतिं पञ्चापि यथा वेताश्च तथा ॥४२०॥ अपि च, सज्जनवनदहनमसौ करोति न तनोति भृतिमीषदपि । तेन विरोधदवाग्निः शमनीयः क्षान्तिजलदेन ॥४२१॥ यद्यपि बहुलाभस्ते मनसे किल रोचते विरोधोऽयम् । परिणामदारुणस्तदपि नव राज्ञस्तनोति कलाम् ॥४२२॥ विरोधो न्यग्रोधः सततमपि बीभत्सफलदो
रुचि मित्रस्यापि स्थगयति च मध्ये प्रविशतीम् । १. सत्याः आदरः सत्यादरो विधातव्यः । असत्याः असतीसकाशाद् दर:-भयं विधातव्यम् ।
२. येन सुशीलताया आचरणेन अगाधे भवतोये भवतः-युष्माकं निमज्जनं न भवति इति आशयः ।
३. महापद्मो नाम निधिः । नवसु निधिषु एकस्य निधेः नाम महापद्म इति, स एव आलयः-गृहं यस्याः सा महापद्मालया। एवं पद्मालया लक्ष्मीः , महापद्मालया अपि सैव, अतः ते वे परस्परं मनागपि न भिन्ने-पृथग्भूते ।
४. सुमनसः-देवाः तेषां प्रीतिं मन्दारादयः विदधति तथा व्रता अपि । सुमनस:-सुन्दरमनस:-शुचिमनसः पुरुषाः तेषां प्रीतिं विदधति ।
५. 'व्रत' शब्दः पुंस्यपि “व्रतोपवीतौ” [ हैम-लिङ्गानु पु-नपुंसकलिङ्गप्रकरणम् , श्लो० ७] "व्रतः व्रतं नियमः" (वृत्तिः)।
६. विभूति-लक्ष्मी वैभवं वा ।
७. राश:-नृपस्य, चन्द्रस्य अपि । नृपपक्षे बहुलाभ:-बहुलाभकरः-बहुलाभदायी । चन्द्रपक्षे बहलाभः. बहल:-कृष्णपक्षः तद्वद आभा यस्य स बहलाभः-कृष्णपक्षसमानः । कलाम्-नृ० पक्षे कला प्रसिद्धा, च० पक्षे कला-चन्द्रकला बहुलपक्षे हि चन्द्रः कलां न तनोति । अयं विरोधः बहुलाभदायी इत्यतः ते-तव मनसः रोचते इति तत्-तादृशम्- कल्पनमपि तव कलां न तनोति इति आशयः ।
८. विरोधः-संग्रामः स च न्यग्रोधरूप:-वटरूपः विरोधपक्षे न्यग् रोहति-नीचैः उद्गच्छति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org