SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सच्चासः] मदनरेखा-आख्यायिका आदतप्रतीहारेण ज्ञापिता च राज्ञः । निवर्तितसकलसमरसरम्भेण विहिताभिगमनेन च महीपतिना प्रवेश्य समुपवेशिता समुचितासने । अघनाशनी कुसङ्गतिरहितां स्थिरदृष्टिममृतरसचित्तां । तां वीक्ष्य देवतामिव परमां मुदमाप मिथिलेशः ॥४१२॥ अद्भुतरुचिराकृतिना विनतोङ्गजरूपतां दधानेन । निष्प्रतिमद्युतिभरतो विनताङ्गजरूपलां दधानेन ॥४१३॥ नीतिस्फीतिरते ! पराक्रममते ! लब्धप्रतिष्ठोन्नते ! सद्धर्मप्रकृते ! निरुद्धविकृते ! लावण्यपुण्याकृते ! । विख्याताद्भुतसन्तते ! सहृदयाभीष्टावदातस्थिते ! श्रीमद्भूमिपते ! विवेकवसते ! सद्धर्मलाभोऽस्तु ते ॥४१४॥ इत्याशीर्वचनसुधया परमानन्दमेदुरान्तःकरणं विनयकशरणं शुद्धभूमाबेवोपविष्टं नमिनरेन्द्रमनुशासितुं मधुरमधुरया गिरा सा प्रारभत पैरमतमज्ञानमयं ज्ञेयं हेयं च, जिनमतं विबुधैः । परमतमज्ञानमयं ध्येयं विधिना विधेयं च ॥ ४१५॥ कं-स-मृद्धितनुतो यशो-दया-नन्दवत्सलतया पुरस्कृतः । यो वियोजयति सात्त्विकैकधीयुज्यते स पुरुषोत्तमः श्रिया ॥४१६॥ १. अङ्गजः-पुत्रः, तद्रूपतां दधानेन-पुत्रेण । अत्रत्य — विनता 'पदं 'नम् 'धातोः 'वि'. पूर्वस्य भूतकृदन्तम् । २. अनुपमेन द्युतिभरेण-कान्तिसमूहेन तद्रूपतां विनताङ्गजरूपतां दधानेन-गरुडसादृश्यं दधानेन । अत्रत्यं 'बिनता 'पदं गरुड जननी सूचयति । ___३. अस्मिन् श्लोके 'ते'वर्ण पदान्ते दधानानि सर्वाणि पदानि संबोधनरूपाणि । ४. परेषां मत परमतम् अज्ञानमयं ज्ञेयं हेयं च । जिनमतं च परमतमं यद ज्ञानम् अर्थात् उत्कृष्टोत्कृष्टं यद् ज्ञानं तन्मयं-तद्र जिनमतं ध्येयं विधेयं च ।। ५. अत्र पद्ये 'पुरुषोत्तम'पदे श्लेषः । यशोदया-यशोदासहायतया नन्दवत्सलतया च पुरस्कृतः यः सत्कधीः वियोजयति-कंसस्य ऋद्धिं दूरीकरोति स पुरुषोत्तमः-कृष्णः इति एकोऽर्थः । द्वितीयस्तु समृद्धितनुतः-यः सात्त्विकैकधीः यशोदया-नन्दवत्सलया-नन्दजनकवात्सल्येन पुरस्कृतः कम् यं कमपि समृद्धितनुतः समृद्धेः अल्पीभावाद् यः वियोजयति समृद्धेः अल्पता दूरीकृत्य तस्याः वृद्धिं करोति स पुरुषोत्तमः-उत्तमपुरुषः ज्ञेयः । कृष्णपक्षे यशोदया जनन्या नन्दवत्सलतया च इति तृतीयान्तम् इत्येवं पदद्वयं पृथक् पृथक् ज्ञेयम् । राजकुमारपक्षे-यशोदयाऽऽनन्दवत्सलतया इति तृतीयान्तम् , यशः दया तयोः आनन्दः तेन वत्सलता इत्येवम् एकम् अखण्ड पदम् । ___ 1 साल पर खल। 2 निठल्यूतद्युति° ला विना । 3 °मयं हेय ज्ञेयं च डे। 4 मतं तु बुधैः ख । २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy