________________
उच्छ्वासः]
मदनरेखा-आल्यायिका मासे मासे प्रस्तूयमानेषु देवोपयाचितेषु, स्खलिते स्खलिते सादरमुंघुष्यमाणेषु परिचारिकाभिराशीर्वचनेषु, वयोनुरूपं समयानुरूपं कुलानुरूपं देशानुरूपं प्रवर्त्यमानेषु महामहोत्सवेषु समजायत अष्टवार्षिकः ।
. समर्पितो राज्ञा कलाचार्यस्य, ततश्च पतिवरा इव सकलभूपालस्पृहणीया हिमरुचिमरीचय इव भुवनजननयनहारिण्यो महाकथाप्रथा इव संहृदयहृदयविश्रामभूमयः सर्वज्ञशासनक्रिया इव सर्वथाऽपि निरवद्या विनापि कालविलम्बन सकला गुरोरपि चित्तचमत्कारकारिका विमला द्वासप्ततीरपि कलाः कलयांचकार ।
सुस्वामिसेवोत्कण्ठाप्रोत्साहितेनेव कलाकलापप्रसिद्धिविस्मितेनेव निजावसरस्पृहयालुरतिपतिप्रार्थितेनेव भविष्यदन्तःपुरीपुष्यपरिपाटीघटितेनेव सकलसंसारिकसुखनिबन्धनेन यौवनेनालङ्कत इति विज्ञाय तेन राज्ञा कुलीना अप्यमरसुन्दरीः, न-भोगरहिता अपि विद्याधरयुवतीः, शेषराजदुर्लभा अपि पातालरमणीस्त्रिभुवनातिशायिरूपयौवनलावष्यसौभाग्यभान्यसमायाति । 'उपचयादिषु' इत्यत्र आदिशब्देन देहप्रमाणस्यापि, देहभारस्यापि, देहस्य रुग्णतायाः आरोग्यस्यापि वीक्षणं समाविष्टम् ।।
१-३. 'दासप्ततीः अपि कलाः कलयांचकार' इत्येवमन्तिमेन पदेन यः द्वितीयाबहुवचनयुक्तः 'कला' शब्दः प्रयुक्तः तथा 'कलयांचकार' इत्येवं यत् कर्तरिप्रयोगरूपं क्रियापदं प्रयुक्तम् , तत्प्रयोगद्वयापेक्षया अत्र वाक्यसमूहे यानि 'कला' इत्यस्य उपमारूपाणि पदानि वर्तन्ते तैः द्वितीयाबहुवचनयुक्तैरेव भाव्यम् , न प्रथमाबहुचनयुक्तैः । अत्र कानिचित् 'कला 'पदविशेषणानि प्रथमाबहुचनयुक्तानि अपि दृश्यन्ते, यथा-'हिमरुचिमरीचयः' 'जननयनहारिण्यः' 'सहृदयहृदयविश्रामभूमयः' इति एतत् कथं समुचितं भवेत् ? ।
४. कुलीनाः-पृथ्वीसमाश्रिताः । या ईदृशी कुलीना सा अमरसुन्दरी न भवति इति विरोधः । परिहारस्तु-कुलीना-उत्तमकुलजाता । 'अमरसुन्दरी'शब्दोऽत्र 'अमरसुन्दरीतुल्या' इति आशयज्ञापनाय बोध्यः ।
५. या विद्याधरयुवतिः सा तु नभोगेन-नभोगामिना सहिता एव भवति । अत्र तु नभोगरहिता इति विरोधः । परिहारस्तु-न भोगरहिता-भोगरहिता न किन्तु भोगसहिता तथा 'विद्याधरयुवतिः 'इति पदं विद्यावतीनां कन्यामां सूचकम् , न नभोगविद्याधरार्थबोधकम् । विरोधे 'नभोग 'इति अखण्डं पदम् । परिहारे तु 'न भोग 'इति पदद्वयम् ।
३. या पातालरमणी सा शेषराजदुर्लभा-शेषाख्यनागराजदुर्लभा न भवति, इयं तु सत्यपि पातालरमणी शेषराजदर्लभा इति विरोधः । परिहारस्तु शेषाणाम् अन्येषां राज्ञां दुर्लभा इति शेषराजदुर्लभा इति । 'शेष'शब्दः अत्र 'अवशिष्ट 'भाववोधको बोध्यः । 'पातालरमणी'. शब्दोऽपि 'पातालरमणीतुल्या' इत्यर्थको ज्ञेयः ।
1 देवोपचयादि तेषु ख। 2 स्खलिते सादर ख। 3 सहृदयवि ख। 4 ‘कारिवि खल। 5 'चके ख। 6 धनधनेन ल। 7 कृतेन तेन खल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org