________________
१३४ श्रीजिनभद्रसूरिरनिता
[पामः श्रुतं जुघोष सन्तोष पुपोष प्रतिवासरम् । तृष्णाकृष्णाऽहितो रक्षां कः कर्तुमपरः क्षमः ? ॥३३२॥ तपःश्रीः प्राणतोऽपीष्टा द्वादशाङ्गी च सर्वदा । कषायास्रवरोगाणां सैवैका परमौषधी ॥३३३॥ दासीकृत्य निजप्राणान् पालयामास संयमम् । यत् तस्याः संयमः प्राणाः प्राणास्तु न तृणान्यपि ॥३३४॥ अङ्गीचक्रे तया सत्यं तद् विना मौनमेव च । पथ्याशित्वं परं युक्तं लङ्घनं चापि धीमताम् ॥३३५॥ समाचचार शौचं सा शुद्धेन विधिना तथा । यथाऽमस्त परेषां स्वं मृतकं कृमिसङ्कुलम् ॥३३६॥ नैवापि ब्रह्मचर्यस्य गुप्तयश्चक्रिरे तया । परब्रह्मफलं येन ताभ्य एव प्रजायते ॥३३७।। देहेन्द्रिय-मनोभ्योऽपि स्पृहयामास नैव या । बाह्ये परिग्रहे तस्याः कीदृशी स्यान्ममत्वधीः ? ॥३३८॥ एवं दशबिधे धर्मे सर्वथा निश्चलाऽप्यसौ । विजहार महानन्दश्रिया साध यथाविधि ।।३३९।। दुर्दान्तेन्द्रियवाजिरीजिदमनं क्रोधादिविच्छेदनं
सिद्धान्ताध्ययनोपचारकरण दुष्कर्मनिर्मूलनम् । सद्गीतार्थपरम्परागतमिह शान्तिप्रधानं च यत्
तज्ज्ञानादिपरा तदाऽखिलमसौ तीव्र तपस्तप्यते ॥३४०॥ तस्य बालकस्य पुनरमन्दानन्दपूर्वक नमिरिति नाम राजा पद्मरथो गुणनिष्पन्नं चकार । यतः कारणात् यस्मिन्नेवै दिने समासादितोऽसौ तस्मिन्नेव दिने सेनापतिभ्योऽपि नमन्ति स्म अनमन्तो विपक्षक्षितिपतयः । ततः स नमिकुमारः प्राणेभ्योऽपि प्रियः प्रतिक्षणं विधीयमानेषु लवणोत्तारणेषु, प्रतिदिन क्रियमाणेषु रक्षाकण्डकेषु, पक्षे पक्षे वीक्ष्यमाणेषु देहोपचयादिधु,
१. अनेन पदेन 'साध्व्याऽपि द्वादशाङ्गया अभ्याससबन्धं स्थापितवत्यः किम् ?'
२. नवापि-नव अपि । अत्र 'नव 'शब्दः संख्यासूचकः । जैनशासने हि ब्रह्मचर्यपरिपालनाय नव वाटिकाः प्रदर्शिता इति प्रसिद्ध मेव । 'वाटिका'शब्देन अत्र वृक्षसंरक्षणाय या 'वाड' क्रियते सा ग्राह्या, नान्या ।
३. 'पक्षे पक्षे वीक्ष्यमाणेषु देहोपचयादिः' इयोन स्पष्टं ज्ञायते यत्-विद्यार्थिनां शरीरं पक्षे पक्षे कियती वृद्धि प्राप्तम् कियती वा हानि प्राप्तम् इति परीक्षापद्धतिः प्राचीनकालत एष
1 श्रुतजं घो डे। 2 "ङ्गीव स° डे। 3 राजदमनं खल। 4 व समा डे। 5 प्रतिक्षणं क्रिडे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org