________________
उच्छ्वासः]
मदनरेखा-आख्यायिका
१३३
अपि च, कति न कति न भुक्ता भूरि भोगोपभोगा:
कति न कति न जाताः पुत्र-पौत्रादियोगाः । कति न कति न भूताः सार्धमेतैर्वियोगा
स्तदिह भवनिवासे कः सुतः कः परो वा ? ॥३२७।। ततः पुत्रापुत्रयोरथवा सचराचरेऽपि जगति समतैव श्रेयसी । आस्ताम् अपरः, परमात्माऽपि तावदभिन्न एव चिन्तनीयस्तदलं मोहनिबन्धनेन तनयनिरीक्षणेनेति जनेश्वरी प्रदत्तशिवशर्मशय्यां प्रव्रज्यामेव स्वीकरिष्ये। त्वमपि महाभाग ! यथाभिरुचितं विधेहीत्युक्तः, सोऽपि साध्वीमदनरेखां च प्रणम्य गतो निजकल्पम् । तया पुनस्तासामेव भगवतीनां समीपे प्रतिपन्ना पारमेश्वरी दीक्षा समधिगतसुव्रताभिधाना च ।
तां दीक्षां प्राप्य साकाङ्क्षा शिक्षा कक्षीचकार सा। शिक्षाहीना तु या दीक्षा भिक्षामात्रस्य कारणम् ॥३२८॥ अन्तर्बहिः पुरः पश्चात् क्षान्तिश्चक्रे तयाऽऽत्मनः । . सत्य एव सतीनां स्युः प्रशस्याः प्रतिचारिकाः ॥३२९॥ नम्रता प्रागपीष्टाऽस्यास्तदानीं तु विशेषतः । द्राक्षेष्टा सुहितस्यापि क्षुधार्तस्य किमुच्यते ? ॥३३०॥ ऋजुतामात्मनो भिन्नां न सा चक्रे दिवानिशम् ।
दम्भस्य वैरिणो यस्मात् सैवैका प्रतिपन्थिनी ॥३३१॥ इच्छाया मोहरूपाया लिप्साया योगेन संबन्धेन नन्दनं पुत्रं लब्धा प्राप्तवती अब्रह्मचर्यरूपेण व्यामोहेन मूढा सती नन्दनं प्रसूतवती, अत्र 'नन्दनो हि व्यामोहकारणम्' इति स्पष्टयितुं पश्चार्धन स्पष्टं सूचितं यत् 'यस्य दर्शने मोहः तदस्तु अमुना' इति ।
अत्र 'नन्दन 'पदेन नन्दननामकं सुराणां क्रीडावनमपि सूच्यते । तस्य पक्षे 'सुरतरुचितसंतानेच्छाया योगेन' इत्यादिवाक्यस्यायमर्थ:-सुरतरूणां कल्पवृक्षाणां चितः संचितः यः संतानः विस्तारः यत्र तद् नन्दनं वनम् । तस्य तादृशस्य नन्दनवनस्य तत्र रमणार्थमिच्छाया योगेन देवा नन्दनवनं प्राप्नुवन्ति इति आशयः । अत एव पश्चार्धेन निर्दिष्टम्-सुमनसोऽपि-देवस्य अपि नन्दनवने मोहः ।
मदनरेखापक्षे सुमनसोऽपि चारुमनसोऽपि मदनरेखाया इत्येवं 'सुमनसः' इति मदनरेखाविशेषणम् । मदनरेखाया नन्दने मोहः, इत्येतत् तु अत्र स्पष्टितमेव ।
1 यथारचितं हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org