SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः। जिनचन्द्रयोरियं मल्लिनाथ-नमिनाथयोर्जगन्नुतयोः । जन्म-व्रतभूमितया परमतमं पावनं तीर्थम् ॥३२२।। प्रथममतश्चैत्यगृहे तयोः प्रविश्य प्रमोदकलितौ तौ । जिनमहिमानं चक्रतुरायातौ तं विधातुमिव ॥३२३॥ कुत्राप्युपाश्रये च निरीक्ष्य सुसाध्वीनमस्कृत्य च समुपविष्टौ तदप्रतः, ताभिरपि सविस्तरं धर्म निवेद्य सर्वसारमुक्तम्-- __ अधिगम्य मतं जिनेशितुश्चरणं ये प्रतिपेदिरे बुधाः । शिवकारणमत्र ते नरा भुवनेऽन्ये पशवो वराककाः ॥३२४॥ इत्यादिदेशनया सञ्जाततीव्रचरणपरिणामा प्रस्तुतप्रयोजनार्थमाख्याता सा त्रिदशेन सच्छायघनतरलताप्रधानसुतरूपशान्तसन्तापा । इह रमणी रमणीया सुतरामारामभूमि ॥३२५॥ तया पुनरैकुण्ठोत्कण्ठां चरणं प्रति दधानया तदानीमित्थमूचे---- झुरतरुचितसन्तानेच्छाया योगेन नन्दनं लैब्धा । यद् यस्य दर्शने सुमनसोऽपि मोहस्तदस्त्वमुना ॥३२६॥ १. इयं मिथिला नगरी । २. जन्मभूमितया-जन्मकल्याणकस्थानरूपेण । व्रतभूमितया-दीक्षावल्याणकस्थानरूपेण । ३. तयोः जिनचन्द्रयोः-जिनेषु चन्द्रसमानयोः तयोः मलिनाथ-नमिनाथयोः चैत्यगृहे इत्यन्वयः । ४. ताभिः इति उपाश्रयस्थिताभिः । अनेन उल्लेखेन सूचितमेतद् यत् साध्वीजनोऽपि उपदेशप्रवचनाधिकारो जनशासने संमतः । ५. रमणीपक्षे सुतरूपेण-सुतप्राप्तिरूपव्यापारेण-सुतजन्मना शान्तः संतापो यस्याः सा मदनरेखा-मदनरेखया यो नवजातः सुतः तत्र अव्यां स्थापितः तस्य त्रिदशद्वारा वृत्तान्तश्रवणेन तस्याः संताप उपशान्त इति भावः । ६. आरामभूमिपक्षे सच्छायैः घनतरलताप्रधानः सुतरुभिः सुरतरुभिः उपशान्तः संतापो यस्याः सा आरामभूमिः । ७. चरणं चारित्रम्, तत् प्रति अकुण्ठोत्कण्ठां दधानया तया विद्याधरं प्रति ऊचे इसि पदसंबन्धः । ८. सुरतं मैथुनम्-अब्रह्मचर्यम् , तस्य रुचिस्तेन अभिलाषेण यः संतानः पुत्रः तस्य 1 °तौ वि ख । 2 श्रये नि डे। 3 तीव्रपरिणामा डेख । 4 लब्ध्वा ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy