SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १३१ उच्छ्वासः] ___ मदनरेखा-आख्यायिका केवलमधुना मिथिलापुरी नय माम् , दर्शय नन्दनवदनारविन्दम् , येन तद्विलोकनसम्पन्नलोचनसुखा पारमार्थिकसुखाचरणाय चरणमाचरामि ।' तेन च मुनिचरणनमस्करणपूर्वकमेवाद्भुतदिव्यसामर्थ्यवशेन निमेषमात्रेणैव निन्ये मिथिलाम् । तत्प्रभावातिशयावलोकनेन च सा विस्मयते स्म । प्रियतमहृदयालवालमध्ये सुकृतमरुरूपदेव यद् द्रुकल्पम् । कुसुमितमवलोक्य तद् द्युलक्ष्म्या मुदमगमत् परमं पतिव्रता सा ॥३२१॥ इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नेमिचरित्रापराभिधायां मुदकायां चतुर्थ उच्छ्वासः समाप्तः । १. अरुरूपद् एव-रोपितवती एव । तात्पर्य त्वेवम्-युगबाहुनामकस्य मरणासन्नस्य स्वकीयप्रियतमस्य हृदयरूपे आलवाले-केदारे सुकृतरूपं ट्रकल्प-द्रुमसमानं वृशं रोपितवती पूर्वभवे, तम् एव सुकृतवृक्षम् , झुलझ्म्या-स्वर्गप्राप्तिश्रिया कुसुमितं पुष्पसमन्वितम् अवलोक्य सा पतिव्रता मदनरेखा परमं हर्ष प्राप्तवती । ॥ इति चतुर्थ उच्छ्वासः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy