________________
[चतुर्थः
१३०
श्रीजिनभद्रसूरिरचिता त्रिदशराजेन जगदे--
भगवन्निह जिनधर्मे किं सारं कथय सद्विवेकदृशाम् । मुनिरपि जगाद साधर्मिकस्य वात्सल्यमेवैकम् ॥३१६॥
यतः
चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनं
तत्त्वं तेन जिनागमस्य कलितं सङ्घोन्नतिं स व्यधात् । सत्यं कारितमेव तेन सुधिया निर्वाणशर्माद्भुतं ।
यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥३१७॥ अपि चसम्पूर्णोऽपि कलालयोऽपि नयनानन्दप्रदोऽप्यङ्गिनां
सर्वस्याप्युपरिस्थितोऽपि यदि वा प्राणप्रियोऽपीशितुः । शोभामेति समानधार्मिकजनैरेवान्तिकस्थैः सुधी
लक्ष्मी कां न बिभर्ति शीतकिरणस्तारागणालङ्कृतः ॥३१८॥ इति श्रवणानन्तरमेव योजितकरारविन्देन तेन वृन्दारकवरेण प्राप्तसतीरेखा मदनरेखाऽभ्यधीयत-~~' समानधार्मिके ! मदनरेखे ! प्रदीयतां धार्मिकोचितो मय समादेशः । किं ते प्रियं सुख करोमि । पश्य
साधर्मिकसमं पात्रं सप्तक्षेत्र्यां परं न हि ।
येनेयं वैर्द्धतेऽम्भोधेर्वेलेव श्वेतरोचिषा ॥३१९॥' भणितमनया--'कृतज्ञशेखर ! न भवतामधीनं मम प्रियं सुखम् । यतःमम जन्म-जरा-मरणादिभयोज्झितमेव सुखं प्रियमस्ति शिवे । तदनासवधर्मधनप्रभवं त्वदधीनमिदं भवतीह कथम् ? ॥३२०॥
१. सप्तक्षेत्र्यां साधर्मिकसमम् अन्यत् पात्रं विशिष्टं वरेण्यं च न विद्यते अर्थात् सप्तसु क्षेत्रेषु साधर्मिकजन एव उत्तमं पात्रम् , यतः येन साधर्मिकजनेन इयं सप्तक्षेत्री तथा वर्धमाना वर्तते यथा श्वेतरोचिषा चन्द्रेण अम्भोधेर्वेला वर्धमाना वर्तते, साधर्मिकजनोद्धारं विना सप्तक्षेत्री क्षीणा भवति, अतः तस्याः क्षीणतानिवारणाय साधर्मिकजनानामेव समुद्धरणं सर्वत्र प्रथमं विधेयम . तदनन्तरम् अन्येषां क्षेत्राणां समुद्वारप्रवृत्तिः सफला-विना साधर्मिकजनोन्नतिम् अन्येषां जिनचैत्यप्रतिक्षेत्राणां समुन्नतिः विशिष्टरूपेण सफलतमा कथमपि न स्यात् , साधर्मिकक्षेत्राभ्युदयस्य प्राधान्यं विना अन्यक्षेत्रोद्धतिः प्रायो विफला जायते इति साधर्मिकजन एव परमोत्तमं पात्रम् इति ग्रन्थकारश्रीजिनभद्रसूरिणा समर्थितम् एतत् पात्रम् ।
1 °कवीरेण डे । 2 °चितो ममा ख । 3 वर्धितोम्भोधिर्वे ° ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org