SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२९ नाथः, शक्रसामानिकस्त्रिदशर्वरः पुण्यैरद्यैव जातोऽसि । अवलोकयत - वेवेते' रमणीरमणीयतराङ्गणा रत्नमयाः प्रासादाः, एताः कनकाम्बुजरजःपुञ्जपिञ्जरिताऽमृतपरिपूर्णाः क्रीडादीकाः, एते रत्नशिखराः सुवर्णवपुषः क्रीडागिरयः, एताः समुच्छलदतुच्छस्वच्छतरङ्गसङ्गताः केलितरङ्गिण्यः, एतानि नित्यं कुसुमफलकलितानि केलिकाननानि, इदं च विचित्रमणि - गणरमणीयमास्थानम् । एताश्चामर - मुकुर - तालवृन्तभूषितपाणयस्तव दर्शनोत्सुका वारनार्यः । एष प्रेक्षणकरसामृतपराभृतसमुद्रगर्वसर्गे गन्धर्ववर्गः' इत्यादि आकर्णयन्नेव दत्तोपयोगोऽवधिज्ञानेन सकलमपि पूर्वभवस्वरूपमज्ञासिषम्, प्रियोपदिष्टं जिनधर्मफलमिदमिति ध्यात्वा चाभिषेकोद्यतं त्रिदशलोकमपहाय गुरुबुद्धयैवागतोऽहं एतां वन्दितुम् । वन्दिता च प्रथममियमेवेति । धनमनिधनमेव तेन दत्तं निरवधिराज्यमपीह तेन दत्तं सुरपतिपदमङ्ग ! तेन दत्तं य इह ददौ किल बोधिरत्नमेकम् । यो येन शुद्धधर्मे निवेशितः संयतेन गृहिणा वा तस्य स एव गुरुः स्यात् जिनेन्द्रधर्मप्रदानेन ॥ ३१३॥ [ ततोऽभ्यधीयत विद्याधरेण- साधु साधु श्लाध्यैव तवोचितचारितेयं, वर्णनीयैव तैवाशुकारितेयं, अनुमोदनीयैव तव कृतज्ञतेयम् । यतः धन्यास्त एव भुवनैकविभूषणं ते ते वन्दनीयचरणाः शरणं भुवस्ते । येषां वपुर्धन पवित्रकलत्रमित्र पुत्रादपि प्रियतमेह कृतज्ञतैव ॥ ३१४॥ तदनेन तवाऽऽकूतश्रवणेन अमुना चस्थानविनयविलोकनेन कृतार्थे मम श्रवणेक्षणे । अहो ! जिनधर्मस्य प्रभावातिशयः, तदेतत् सत्यमेव तावदेव भविनां भवार्णवे दुःखलक्षलहरीविघूर्णना । यावदेव न जिनेन्द्रशासनं यानपात्रमिव लभ्यते ध्रुवम् ॥३१५॥ १. वा + एव + एते वैवैते । 6 Jain Education International २. अत्र 'प्रासादाः सन्ति इति बोध्यम् । ' अवलोकयत ' इत्यस्य ' प्रासादाः ' इत्यनेन कर्मरूपो न संबन्धः । अवलोकयत - यूयं पश्यत एते प्रासादाः सन्ति इति भावः । 5 1 पुण्यै । 2 ° पिञ्जरामृत' ख । 3 भूषणा । 4 प्रेक्षणिक 5 इत्याक ख । 6 जिनेशध' ख 7 'धरेन्द्रेण ल । 8 तदाशु डे । १७ For Private & Personal Use Only खल । www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy