SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीजिनभद्रसूरिरचिता [ चतुर्थः लित प्रेसरस्य तमसो प्रासावलिकायाम्, अथवा सपक्षोऽपि गिलिप्यतेऽसावनेन न पुनरुद्भि लिप्यते । तथाहि विश्वस्तस्य प्रहारं हतमतिरसिना कन्धरायामदान्मे यस्त मारैरनेकेरयमहमधुना मारयिष्याम्युदित्वा । यः कश्चित् पक्षपातं प्रबलरुषि मयि स्त्री नरो वाऽस्य कुर्याद् बाल वृद्धं युवानं धनपतिमधनं वा तमप्येवमेव ॥ ३११ ॥ इति हृदयस्थितया विपक्षपक्षपातिन्येव पापिष्ठया चिन्तया समर्पितोऽहं रौद्रध्यानस्य, तेनापि याने माधोऽहं नरककुहरकारागारे तावन्मम कुलदेवतयेवान्या प्रशममयैरिव संसारैरिव निविवरणोपविद्धं रिव परमारितवतोऽधिवारितैरिव जिनराजशासन रहस्यभूत रुपदेशवीर : कर्णविवर प्रवेशितैरपसार्य तं ज्ञानश्रद्धानचरणानुगग्यमानो मैध्यादिभावनात्मकः पुरस्कृतपञ्चपरमेष्ठिबलः चतुःशरणवत्राङ्गिकासन्नद्धः समतैककरिकन्धराधिरूढो धर्मध्यानमहावीरः पुरश्चक्रे । नीतश्चामुना समाधिसुखासनासीनः क्षणेनैव ब्रह्मलोके अवतारितश्च दिव्यशयनसम्पुटे, ततोऽन्तमुहूर्तेन सर्वाङ्गीणाभरणाभिरामो यथाकार्मरूपः सकललक्षणसम्पूर्णः सप्तधातूषिताङ्गो नित्ययौवनः सर्वाङ्गसुन्दरमूर्तिरिन्द्रसामानिकः समजनिषि । जय जय, नन्द्या इति स्फुटदाशिषं बधिरितदिशं भूयो गुञ्चच्चतुस्त्रिक तूर्यकम् । Jain Education International श्रुतियुगसुधाssसाराकारस्फुरत्कलगीतिकं कलकलहं श्रुत्वा जातो विकस्वरविस्मयः ॥ ३१२॥ अहो ! सश्रीकमिदम्, अहो ! रमणीयमिदम्, अहो ! सेव्यमिदम्, अहो ! महानन्द सदनमिदम्, अहो ! किमिदमासदम् अहम् ? इति चिन्तयन्नेव विज्ञप्तः सुधामधुरया गिरा विनयनम्रमौलिना, प्रतीहारेण- 'नाथ । ब्रह्मलोकनामाऽयं पञ्चमः स्वर्गलोकः त्वमत्रास्माकमनाथानां च० पक्षे सुनयनेत्राणां सौख्यप्रदः, अथवा अत्र सुनयने सौख्यप्रदः - अत्र अस्मिन् लोके सुनयने सौख्यप्रदः । सगुणपुण्डरीके: केः न ऐक्षि- सगुणेषु गुणयुक्तेषु मनुष्येषु शिखरायमाणैः पुरुषैः गुणिप्रवरपुरुपैः केः एतादृशः न ऐक्षि ? अपि तु सर्वैः ऐक्षि- दृष्टः । 1 भूप: संपूर्णमण्डल: संपूर्णवसुधामण्डलः । चन्द्रः संपूर्णमण्डल:- संपूर्णतया वृत्ताकारः । तमसः राहोः ग्रासावलिकायां ग्रासानाम् आवलिका तस्याम्, अर्थात् मया से ग्रस्त इति भावः । १. 'नन्द्याः नन्द्याः' इति पदद्वयम् आशीर्वादसूचकम्, समृद्धयर्थकस्य 'नन्दू 'धातोः आशिषः द्वितीय पुरुषैकवचनम् । 1 'प्रसरस्यासित खल | 2 'तादिवा' डे । 3 'सुखासीन खल | 4 रूपक ख । 5 वनसर्वा । 6 स्फुयशिष ख । 7 'धुरगिरा ख । 8 प्रतिहारेण ख । 9 'नामा पञ्चमोऽयं स्वर्ग' डे । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy