SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२५ 'भूयोऽपि भगवंस्तस्यापि युवराजस्य गति शुश्रूषते ममान्तःकरणम्' इति मदनरेखयाऽनुयुक्तो यावद् भगवान् कथयति तावन्भेहापुरुषचरित्रमिव विचित्ररूप - क- विरचनालङ्कृतम्, सुभटललितमिव सर्व-तो-रणवैचित्रीं दधानम्, मुक्तावचूलैर्मुनिमिव प्रशमिततार-कोप-शोभं तेजोमयतया भानुमिव, दर्शनीयतया चंन्द्रमयमिव, सुतरामभ्रङ्कषशिखरतया स्वस्थानदर्शनविच्छेदभीतमिव, स्फटिकघटिततलप्रतिफलितसकलवस्तुतया विश्वरूपमिव, चन्द्रकान्तघटितसोपानतरङ्गमाल्या भागीरथीमयमिव विविधशालभञ्जिकाभिरामस्तम्भशतरामणीयकाहंयुतयेव विरचितपताकापत्रावलम्बनम् अनेककिङ्किणीजालवात्मस्तवमुखरं च तत्र विमानमेकमवतरं सर्वैर्ददृशे । निर्जगाम च ततः कुण्डलयुगलच्छलेन दिनकर - हिमकराभ्यां पीयमानकपोलपालीप्रपाप्रभापीयूषः, मुक्ताकलापच्छलेन श्रेणीभूततारकनिकरेण सेव्यमानवक्षःस्थलनभस्तलः, केक्ङ्कणमणिच्छलादुदयमानसमस्त ग्रहनक्षत्रैः परिचर्यमाणपाणि-चरणनखतुषारकिरणः, सकलज्योतिरलङ्कार एको देवकुमारः । १. [ महापुरुषचरितं विचित्रो रूपकोऽलंकारस्तस्य विरचनयाऽलंकृतम्, अनेकरूपक विरचनयाऽलंकृतं वा । विमानं तु विचित्राणां रूपकाणां - शालभञ्ज्यादीनां विरचनयाऽलंकृतम् । सुभटललितं, सर्वतः - सर्वप्रकारैः रणवैचित्र - संग्रामविच्छित्तिदधानम् । विमानं तु सर्वेषां तोरणानां वैचित्रीं दधानम् । प्रशमिततारकस्य - प्रौढस्य कोपस्य शोभा येन स तथा । तं विमानं तु मुक्ता- वस्त्राञ्चलैःमौक्तिकहारैः कृत्वा प्रशमिता तारकाणाम् उद्भटानाम् उपशोभा येन स तथा । अग्रेतनं सुगमम् । ] विमानवर्णने विविधोपमाभिः श्लेषात्मकं तद्वर्णनम् - विमानपक्षे विचित्ररूपकैर्या विरचना तयाऽलंकृतम् । रूपकाणि - विम्बानि । महापुरुषचरित्रपक्षे विचित्ररूपा विविधा वा ये कवयः तेषां रचनाभिः अलंकृतम् । वि० पक्ष सर्वप्रकाराणां तोरणानां वैचित्री - विचित्रताम् । सुभटललितपक्षे सर्वतः समन्ततः रणत्रैचित्रीम् - युद्धवैविध्यम् । वि० पक्षे अवचूलानि - अधः प्रलम्बानि मुक्तामयानि आभूषणानि येन, वि० पक्षे तारकाणां तारानक्षत्राणाम् उपशोभा, प्रशमिता-तेजोहीना कृता । मुनिपक्षे प्रशमिता शान्ति प्रापिता, तारस्य अत्युच्चैर्ध्वनियुक्तस्य कोपस्य शोभा येन तं तादृशं मुनिम् । भानुपक्षे तेजोमयं तेजस्विविशेषचाकचिक्येन भ्राजमानम् । विमानवर्णने अकम् अत्युच्चैः स्थितया, शिखर अत्युच्चैः - स्थित शिखरतया गगनस्पर्शकम् । भागीरथी - गङ्गानदी । 'पत्रावलम्बनम् - पत्राणाम् अवलम्बनम् - पत्रं हि अत्र ध्वजानां पत्ररूपम्, अथवा अन्येषां विजिगिषूणां प्रतिवादिनाम् । पत्रस्य - विजयपत्रस्य अवलम्बनरूपम् । शालभञ्जिका स्थूणा या भाषायां 'पूतली ' शब्देन प्रतीता । शालवृक्षं भनक्ति या सा शालभञ्जिका तदाकारा या प्रतिकृतिः साऽपि शालभञ्जिका | जालवात्मस्तव - समूहशब्द एव आत्मस्तवः - आत्मप्रशंसनं तेन मुखरम् । अवतरम् - अवतरति इति अवतरं विमानविशेषणम् । २. कङ्कणमणि - देवा हि हस्तयोः यथा क्ङ्कणानि परिदधति तथा चरणयोरपि परिदधति इत्येतद् अनेन विशेषणेन प्रतीयते । 1 चन्द्रमिव ख । 2 कान्तमणिघटित है । 3 'नभःस्थलः डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy