SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीजिनभद्ररिरचिता [ चतुर्थः समागत्य च त्रिः प्रदक्षिणीकृत्य भूतलन्यस्तमस्तको मदनरेखायाश्चरणतामरसं प्रणम्य अनिचरणयुगलं. पश्चात् प्रणनाम । निषसाद च तदग्रतो भूतले । ततः स्त्रीप्रथमप्रणामबहुमानजनित मुनेरवज्ञास्थानमालोक्य स खेचरश्चिन्तयामास त्रिभुवनललामभूता नूनमियं वामलोचना नान्या । कथमन्यथैष देवोऽपि मानवीं नमति साधुतः पूर्वम् ? ॥३०४॥ जगाद च नीतिरेव परमं विभूषण नीतिरेव विनिहन्ति दूषणम् । नीतिरेव परमार्तिवारणं नीतिरेव सकलार्थकारणम् ॥३०५॥ - परम् सामर्थ्येन विना नीतिः सिद्धान्तेन विना क्रिया । वल्लभेन विना कान्ताऽवज्ञास्थानं पदे पदे ॥३०६॥ देवानामेव सामर्थ्य यदि वा भूभुजामिदम् । प्रकाशो भास्करस्यैव यदि वा शीतरोचिषः ॥३०७॥ यदि विबुधवरिष्ठनीतिमेता त्वमपि तृणाय न मन्यसे वराकीम् । शरणमियमुपैत्यहो ! कमन्यं । प्रतिपदमेव कुनीतिदूयमाना ॥३०८॥ भूपतिरपि यतिरपि सक्षमोऽपि रसिकोऽप्यसौ सदाचरणे । यदवज्ञातो नमता प्रथमं भवता कुरङ्गाक्षीम् ॥३०९।। धर्मनीतिप्रकाशसुभगंभविष्णुना परमरहस्यमलङ्करिष्णुना दुर्मतिजिष्णुना तेनोपन्यासेन जातपरितोषः स विबुध उवाच--- १. एतां मदनरेखां विवुधवरिष्ठनीति-विबुधवरिष्ठनीतिभाजनरूपाम् । . २. [ भूपतीत्यादौ-भूपतिपक्षे सक्षमः-सपृथ्वीकः । णे-संग्रामे च । सदा-नित्यं रसिकः । यतिस्तु सक्षमः-क्षान्तिसहितः, चरणे-चारित्रे सदा रसिकः शेष 'तथाहि' इत्यन्तं सुगमम् ।। . क्षमया-वसुधया सहितः सक्षमः भूपतिः । क्षमया-सहनशीलस्वभावेन सहितः सक्षमः यतिः । ..भूपतिः. सदा च रणे रसिकः । यतिः सदाचरणे सच्चारित्ररूपे रसिकः । सदाचरणे इत्यस्य पदविभाग एवम् (१) सदा च रणे । . (२) सदाचरणे । 1 °साद तद ख। 2 नीतिरेव सकलार्थकारणं नीतिरेव परमार्तिवारणम् डे। 3 यदवज्ञा नम रे । 4 °णुना च तेनो खल । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy