________________
१२४ श्रीजिनभद्रसूरिरचिता
[ चतुर्थः तावद् द्वितीयोऽपि देवस्तव तनयोऽजायत । तदानीं तुरङ्गमक्रीडायां प्रस्तुतायां करणगणेनेव दुःशिक्षितेन तुरङ्गमेण पातितः पद्मरथो दुर्गताविव भीष्मायां महाटव्याम् , समासादितश्च तत्रापि जिनधर्म इव स तव तनयः, सञ्जाते च पूर्वभवाभ्यस्तस्नेहेन परमपरितोषे, समायातश्च तदनु मार्गे लग्न एव पुण्योदय इव चतुरङ्गोऽपि निजबलसमुदयः । तेन च तव पुत्रसहित एव जयन्तानुगतो देवराज इव सुरवारणाकारे राजकुञ्जरे समारोप्य नीतः स्वस्थाने । तेनापि नन्दनप्रणयेनेव समर्पितः पुष्पमालाया देव्याः, कारितश्च अकाले इक महामहोत्सवः ।
समाकर्ण्य तदिदं मदनरेखा पुनरपि विज्ञापयामास-'भगवस्तस्य चन्द्रयशसो मयि पलायितायां वराकस्य किं तेन राज्ञा व्यवसितम् ?'
निजगदे भगवता-'भद्रे ! समाकर्णय-यावद् युवराज स मणिरथो निहत्य प्रासाद प्रविवेश तावदेव दुश्चिन्तितप्रचण्डतुण्डेन, दुर्भाषितकुटिलगतिना, दुश्चेष्टितप्रलम्बलाङ्गेललतिकेन, निजेनैव पापोदयेनै(ने)व, तरङ्गेणेव दिनेशाङ्गजाया, दण्डेनेव यमराजस्य, रशनागुणेनेव कालरात्रेः, कालकूटेनेव जङ्गमतां गतेन, शार्वरेणेव तमसा, तदाकारमासेदुषा दुर्जनेनेव भुवनभयङ्करेण, दष्टो महाकायेन कृष्णभुजङ्गेन । कथमस्माकमस्य पापीयसः समीपेऽवस्थातुमुचितमितीव मुक्तः प्राणैः, दुष्कर्मणा च नीतः पङ्कप्रभाभिधायां चतुर्थ्या नरकपृथिव्याम् । अत एव
आस्तां विकारकलुष परवल्लभाया
___ मन्यापदेशवशतोऽपि वचः सहास्यम् । यद्वीक्षण क्षणमपि क्रियते स्मरान्धै
स्तत् कस्य कस्य न जगत्यसुखस्य हेतुः ॥३०३॥ ततो विधाय तयोईयोरपि युगबाहु-मणिरथयोः शरीरदोहादिक्रियां समस्तैरपि राजप्रधानः सचिवप्रमुखैः प्रतिष्ठितश्चन्द्रयशा राज्ये ।'
१. इन्द्रियगणेनेव । २. दिनेशाङ्गजायाः-यमुनानद्याः-यमुना हि सूर्यपुत्री कथ्यते । ३. रशना-काञ्ची-कटिसूत्रस, तस्याः रज्जुरूपेण गणेन । ४. शर्वरी-रात्रिः, तत्र भवं शार्वरं-तमः तेन शावरेण इव तमसा ।
1 तुरङ्गक्री ख । 2 तुरङ्गेण डे । 3 'तोषसमा डे । 4 मार्गलग्नः खल । 5 नुमतो डे 1 6 °श्च तत्काल एव डे। 7 राज्ञाऽध्यवख। 8 पितेन कु° डे। 9 रसना ख । 10 तुमितीव डे । 11 पृथ्व्याम् डे । 12 °दाघादि ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org