________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
१२३ स्यान्तिके दीक्षां प्रपन्नौ । तृतीयेऽह्नि विद्युता निपत्य व्यापादितौ, समुत्पन्नौ महाशुक्र महर्द्धिको सुरौ ।
समासन्नच्यवनाभ्यां च ताभ्यां भगवतोऽरिष्टनेमेः केवलिमहोत्सवकरणायागताभ्यां स एव भगवानपृच्छयत-'भगवन् आवयोरुत्पादः क्व भविष्यति' इति । भगवतोक्तम्-' इहैव भरतक्षेत्रे मिथिलाधिपतेर्जयसेनस्यैकस्तनयः द्वितीयस्तु सुदर्शनपुरे युगबाहुयुवराजसू नुरितिपरमार्थतस्तु पितापुत्रौ भविष्यथः ।'
इति भगवतो वचनमाकर्ण्य गतौ स्वस्थानम् , स्थितिक्षयेण च तयारेको विदेहजनपदे मिथिलायां नगर्यो जयसेनभूपतेर्वनमालादेव्यास्तनयो बभूव, प्रवर्तमाने च महामहोत्सवे कृतं
तस्य पद्मरथ इति नाम । कालक्रमेण च निजवृद्धभावमिव स्वरूपेण सुरताएकारकं प्रबलमदनाशनेकसमयम् अक्षमरणारम्भयोग्यं नवलीलासमुचितं पद्मरथस्य यौवनमालोक्य दत्त्वा राज्यं प्रव्रज्यामग्रहीत् ।
पझरथस्तु सह घुप्पमालया मधुकर इव महामोदं राज्यसुखमुपभुञ्जानो यावदस्ति
१. [वृद्धभावं-स्थाविरम् । सुरतस्य-संभोगस्य अपकारकम् । प्रवलो यो मदः-अहङ्कारः, तस्य नाशनाय-निर्णाशनाय एकः-अद्वितीयः समयः प्रस्तावः यस्य स तथा तम् । अश्णाम्इन्द्रियाणां यो मरणारम्भः तस्य योग्यम् । वलिनां-बलवतां या इला:-पृथिव्यः तासां न-नैव समुचितम-समर्थवैरिणां न पृथिव्युद्दालनसमर्थम् । पद्मरथस्य यौवनं पुनः सुराणामपि आस्तां शेषशत्रणां तापकारक-संतापजनकं, प्रबलस्य मदनस्य-कामस्य, अशनस्य-भोजनस्य, एकोऽद्वितीयः समयो यस्य तत् त था, तद् अक्षमः-क्षान्तिरहितो यो रणारम्भस्तस्य योग्यम् । नवायाः-नूतनायाः लीलायाः समुचितम् ।]
निजवृद्धभावः-वार्धक्यम् । सुरतापकारकम् ...यौवन, प्रबलमदनारनवसम्यम् , उक्षमरणारम्भयोग्यम्-एतानि त्रीणि निजवृद्धभावस्य यौवनस्य च विशेषणानि । निजवृद्धभावपक्षे सुरतापकारकंसुरतायाः-देवत्वस्य अपकारकम्-यदि वार्धक्यं इत्थमेव विना धर्माराधनं व्यतीत स्यात् तदा न देवत्वप्राप्तिः इति देवत्वस्य अपकारकम् , अथवा सुरतस्य सुरतिक्रीडाया अपकारकम् । यौवनपक्षे सुराणां तापकारकं-देवानामपि भयजनकम् । निज० पक्षे प्रबलमदस्य नाशनाय एकसमयरूपम्एकसंकेतरूपम् । यौ० पक्षे प्रयलमदनस्य अशनाय एकसमयरूपम् अर्थात् प्रबलमदनाक्रान्तम् । नि० पक्षे अक्षमरणारम्भयोग्यम्-न क्षमरणारम्भयोग्यम्-समर्थयुद्धस्य आरम्भाय अयोग्यम् , अथवा अक्षाणि-इन्द्रियाणि तेषां मरणारम्भः तस्य योग्यम्-वार्धक्ये हि इन्द्रियाणि म्रियन्ते इति । अक्षमस्य-क्षमारहितस्य अर्थात् क्रोधावेशेन प्रबलतमस्य रणस्य आरम्भे योग्यम्-यौवनं हि न कमपि विपक्षभूतं क्षणमपि सहते इति ।
२. [अग्रे पुष्पमालया राज्ञा, अन्यत्र पुष्पदाम्ना । एकत्र महामोदम्-परमहर्षम्, अन्यत्र बहुपरिमलम् । अग्रे 'तावद्' इत्यन्तं सुगमम् । ]
। 'वृद्धिभाव खल । 2 अक्षमसकोधरणाडे । 3 'मोदराज्य डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org