SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीजिनभद्सरिरचिता [ चतुर्थः अपि च, येषामेष मनोभवो भवभृतां वरुगत्यहो स्वेच्छया तेषां चित्तगतोऽपि न क्षमतमः कार्ये विवेकः क्वचित् । प्रौढामप्यचिरेण दीपकलिकां विध्यापयत्यश्चलो नेनं जीर्णमपीह दीपकलिका दग्धु क्षमा तत्क्षणात् ॥३०१॥ दुरिमारशरगोचरमीयुषा त्वं यत्सोदरीव जननीव मया न दृष्टा । तत्सर्वथाऽधमतमस्य मम क्षमस्व यकालकूटविकृति न सुधा दधाति ॥३०२॥ इत्थं क्षमयता प्रणम्य प्रत्यपद्यत भावेन, सोदरीभावेन मदनरेखा भणिता च-किमभिमतं तव संपादयामि । तयाऽभिहित बान्धव ! देव-गुरून् दर्शयता सकलमप्यभिमतं भवता कृतमेव । ....योजितकरारविन्दया चानुयुक्तः-भगवन् ! कथ्यतां ममास्य पुत्रस्य पूर्वभवचरित्रम् । कथित च भगवता यथा जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये नगरं मणितोरण नाम । तस्मिन्नमृतयशा नाम चक्रवर्ती। तस्य च पुष्पवतीप्रियाकुक्षिकुशेशयहसौ भुवनावतसौ पुष्पशिख-रत्नशिखाभिधानौ द्वौ निरवधिगुणप्रधानौ बभूवतुः प्रशस्तनयो तनयौ, तौ च चतुरशीतिपूर्वलक्षाणि दलितविपक्षाणि विधाय विहाय च प्राज्यमपि राज्य भवभयचकितचेतसौ चारणश्रमणान्तिके श्रमणतां प्रतिपद्य षोडशपूर्वलक्षाणि दीक्षापक्ष्मलाक्षीमाराध्य कृतपर्यन्ताराधनावच्युतकरुप कल्पाधिपसामानिकावुत्तमस्थितिको देवाघभूताम् । तत्र च द्विधाऽपि सुरैसमृद्धिकलितं विषयसुखमनुभूय सञ्जातच्यवनौ धातकीखण्डभरतक्षेत्रे हरिषेणार्द्धचक्रिणः समुद्रदत्तादेवीकुक्षिकमलमरालौ सागरदेव-सागरदत्तनामानावङ्गजौ जातौ । क्रमेण राज्यलक्ष्मी समुपास्याऽपास्य च जातचरणपरिणामौ त्रिभुवनगुरोर्दढसुव्रत १. ईयुषा-गतेन । २. प्रशस्तो नयो ययोः तो प्रशस्तनयो-सुन्दरनीतियुक्तौ । ३. [ नवरं विषयसुखं सुरसं-सुस्वादम् ऋद्धिकलि-सुराणां देवानाम् ऋद्वन्या कलितम् ।] सुरसमृद्धिकलितं-देवसमृद्धियुक्तम् । सुरसं-सरसरसयुक्तम् ऋद्धिकलितं च इति द्विधाऽपि । सुरसमृद्धि इत्यस्य पदविभाग एवम्(१) सुर + समृद्धि । सुरसम् + ऋद्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy