SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका करणस्तावदेवाक्षतनयोऽप्यक्षतनयः, निष्कलङ्काधिपतिरपि निष्कलङ्काधिपतिः, न कस्य राज्ञोऽपि यः समुद्रो मूलाधारः, सोऽपि सरोगरमणीगणवितीर्णहृदयस्तथा मथितो यथा विषमकैरभाजनमेव श्रूयते । ततः पुरुषेणाधमतमत्वं निकृष्टत्वं मध्यमत्वमपि विहाय सर्वथो. त्तमत्वमेव पुरस्करणीयम् । अधमतमत्वं सर्वथा हेयमेव । तदनेन मुनिदेशनाश्रवणेन भानूदयेनेव तमांसि, वडवानलेनेव पयांसि, निदाघेनेव तुषारः, समस्तोऽपि निरस्तस्तस्य मदनविकारः । निन्दता चात्मचरितं चिन्तितमेवं तेन-- धन्यास्त एव जगति स्मृतिगोचरेऽपि येषामनङ्गहतको न कदाचिदेति । यस्मादनेन हतबुद्धिविलोचनानां नाकृत्यमस्ति किमपीह शरीरभाजाम् ॥२९९॥ मन्यते न तृणायापि ना नाकरमणीरपि । स्तकामो वितृष्णश्च नानाऽऽकरमणीरपि ॥३०॥ चन्द्रस्यापि । मूलाधार:-मूलरूप आधारः-चन्द्रस्य जनकः समुद्रः अतः तस्य मूलाधारो वर्णितः । विषमकर -विषस्य-कालकूटविषस्य, मकराणां च-मकरप्रमुखजलचराणां भाजनमेव श्रूयते । १. 'निष्कलङ्का' इत्यस्य पदविभाग एवम् निष्क + लङ्का-निष्कं नाम सुवर्णम् । निर् + कलङ्का-कलङ्करहिता ।। सरागरमणीगण° इत्यस्य एवं पदविभाग:सरा + गर + मणीगण । सरागरमणीगण' । अश्यार्थरतु टिप्पणे स्पष्टित एव । 'विषमकर' इति पदस्य एवं विभाग:विष-मकर इति विष कालकूटविषम् । मकरा:-जलचराः ।। विषमकर इति विषमः कर:-राजदेयभागः । ४. [ध्वस्तकामः-निष्कामः, ना-पुरुषः, नाकरमणीरपि-स्वर्गाङ्गना अपि कर्मतापन्ना न तृणायापि मन्यते। वितृष्णश्च-निर्लोभश्च, ना-पुरुषः, नानाप्रकाराणाम् आकराणां मणीरपि-रत्नान्यपि, न तृणायापि मन्यते । अग्रेतनं 'स्वरूपेण' इत्यन्तं विदितार्थम् ।। ध्वस्तकामो ना-पुरुषः, नाकरमणीः अपि स्वर्गीयदेवीः अपि तृणायापि न मन्यते-तृणतुल्या अपि न मन्यते एवमेव वितृष्णो ना, नाना भिन्नानाम्-पृथक् पृथक् स्थितानाम् आकराणांखनीनां, मणीः-मणिरत्नानि अपि तृणायापि-तृणतुल्यानि अपि न मन्यते । तृणतोऽपि तुच्छानि मन्यते इति भावः । 1 सोऽपि सुरासुरगणवितीर्ण खडे। 2 °चिदेव डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy