________________
श्रीजिनभद्रसूरिरचिता
अधमतमास्ते मरिह परदारेष्वपि निबद्धमतयो ये । स्वकुलं कलङ्कयित्वा ऽवश्यं नरकेषु निपतन्ति ॥ २९५॥ तो दिह चित्तसरसी स्वेच्छाऽनाबाधसत्त्वधामाऽपि । परदारमत्तमातङ्गमण्डलो विशति नो यावत् ॥ २९६॥ यो वा तां सरसामपि कान्तामन्येन भुक्तपूर्वतया । स्पृहयति हि रसवतीमिव ज्ञेयो वैश्वानरः स खलु ॥ २९७ ॥ वामः कामः सकलोऽपि किं पुनर्नाम परवधूविषयः ।
विषमं विषमपरमपीह कालकूटस्य कैव कथा ? ॥२९८॥
किञ्च, निरवग्रहविग्रहपरे यस्मिन् महौजसि परमहोमया गोपायोचितविस्मृतमन्त्रया द्विजातिमालयेव महेश्वरोऽप्याकुलीकृतः प्रियतमया, सोऽपि यावदेव परवधूपराङ्मुखान्तः -
१२०
१. [' तावदिह ' इत्यादौ - - एकत्र सत्त्वाः - जलजन्तवः, अन्यत्र अवष्टम्भः । ]
मातङ्गमण्डल:- चाण्डालश्वा ।
२. [ वैश्वानरः - अग्निः, 'वै 'शब्दः पादपूरणे । श्वा-सारमेयः स नरः । अग्रेतनं 'किञ्च इत्यन्तं सुगमम् । ]
रसतीपक्षे वैश्वानरः- अग्निः । कान्तापक्षे वै श्वा नरः- स नरः खलु वा अर्थात् स नरः म नरः किन्तु श्वा एव ।
३. [ निरवग्रहै इत्यादि - यस्मिन् रावणे महौजसि महाबले निरवग्रहं दुग्रहं यद् दुर्गकैलासरूपं तत्रैकाग्रहविग्रहपरे क ? चित्ते उत्पाटननिष्ठे सति । परमहः तेनोपलक्षितया उमयागौर्या, प्रियतमया- भार्यया, महेश्वरः- हरोऽपि, आकुलीकृतः - कैलासोत्पाटने भीता गौरी हा किमेतदिति महेश्वरकण्ठे लग्ना इत्यर्थः । किंविशिष्टया ? गोपायोचिताः - रक्षणविचक्षणाः स्मृताः मन्त्राः यस्याः सा तथा तया । द्विजातिमालया तु परमहोम यागयोः उचिता विस्मृताः मन्त्राः यस्याः सा तथा तया । सोऽपि अक्ष:- अक्षाख्यस्तनयः - पुत्रो यस्य सोऽक्षतनयः । अक्षतः - अविनष्टः, नयःनीतिर्यस्य सोऽक्षतनयः । निष्कलङ्कायाः स्वर्णलङ्कापुर्याः अधिपतिरपि, निष्कलङ्कानां - कलङ्क - रहितानाम् अधिपतिः यः समुद्र:- सागरः । कस्य राज्ञोऽपि चन्द्रमसोऽपि न - नैवं मूलाधारः - प्रथमतोत्पत्तिस्थानं चन्द्रामृतादीनां तत्रोत्पत्तेः, सोऽपि समुद्रः, सराः - लक्ष्मी:, [ तस्याः ] गरस्यकालकूट विषस्य मणीगणस्य च मौक्तिकादिरत्नसमूहस्य च वितीर्णहृदयो दत्तावासः । तथा मथितः यथा विषे - पानीये ये मकरास्तेषां भाजनमेवाधारमात्र एव श्रूयते । अथ च यः समुद्रः समर्यादः पुरुषविशेषः यो राज्ञोऽपि नृपतेरपि कस्य न मूलाधारः सोऽपि सरागस्य रमणीगणस्य स्त्रीसमूहस्य वितीर्णहृदयः - स न दत्तात्मगुह्यः सन् तथा मथितो यथा विषमस्य करस्य राजदण्डादेर्भाजनम्, शेषं स्पष्टम् । ]
अक्षतनयः- रावणिः, रावणस्य पुत्रो हि मेघनादः अक्षः, स तनयो यस्य स अक्षतनयः रावणः । अक्षतः नयो यस्य स अक्षतनयः । निष्कलङ्का - सुवर्णलङ्का, कलङ्करहिता । राज्ञोऽपि - 1 "स्वस्थानाबद्धस डे । 2 ° पूर्व या डे ।
Jain Education International
[ चतुर्थः
For Private & Personal Use Only
www.jainelibrary.org