SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ११९ उच्छ्वासः ] . मदनरेखा-आख्यायिका निरुपमतमप्रज्ञादाने प्रसीद सरस्वति ! स्तवनविषय येनैतन्मे भवेत् प्रतिवासरम् ॥२८७॥ दिनमिदमहो धन्यं पुण्यं तथैतदहर्मुखं जिन ! पुनरियं वेला वेला प्रमोदमहोदधेः । तव पदयुग दृष्ट्वा यन्त्र स्मृतिस्तुतिलोचनै मम विकसितं स्पर्धबन्धाद् महोदयसम्पदा ॥ २८८ ॥ मदनदमन ! स्वान्त कान्तं विधाय तवानने स्तवनमिति यः प्रातः प्रातः पठत्यशठाशयः । . स भवति. महानन्द्रस्थानं सदा जिन-भद्रधीः प्रकटितगुणग्रामारामो भवानिव धीधनः ॥२८९॥ नमस्कृत्य च भगवन्तं मणिचूडचारणमुनि तदाशीर्वादसञ्जातपरितोषौ द्वावपि समासी नावग्रतः । मुनिनाऽपि मनःपर्ययज्ञानबलावलोकिताखिलतन्मनोऽभिप्रायेण सजलजलदस्तनितसोदरेग वचसा प्रस्तुता देशना इह सकलपापमूलं शूलं निःशेषशुभविपाकानाम् । निःसारता पुरस्कृतसकलतुषं हन्त ! विषयसुखम् ॥२९०॥ विषयसुखैह तमनसां पुंसां नाकृत्यमस्ति किमपीह ।। अस्मादित एवाधमतमा भवन्तीह भवचक्रे ॥२९१॥ यः परिहृतनिजकान्तः शान्तमना ब्रह्मचर्यवर्यतमः ।। त्यक्त समस्तावद्यः स उत्तमः सकलभुवनेऽपि ॥२९२॥ मध्यम-उत्तमपथधीः स्वदारसन्तोषरुद्धघनदोषः । शेषां रमणीं तेक्षकशिरोमणीं वीक्ष्य सभयो यः ॥२९३॥ फैलामिव पररमणी रमणीयामपि न यः परित्यजति । अवगणयन् सकलां स्वां कमलामबलां च स निकृष्टः ॥२९४॥ १. तक्षको नाम महानागः तस्य शिरसि वर्तमाना या मणी तत्समां परमरमणीं वीक्ष्य । न हि तं मणिं कोऽपि स्प्रष्टुं शक्नोति, एवं पररमणी अपि अस्पृश्या एव मन्तव्या । २. फेलामिव-उच्छिष्टमिव-भुक्तसमुज्झितमिव । “अथ भुक्तसमुज्झिते"-" फेला पिण्डोलीफेली च"--अभि० कां० ३, श्लो० ९०, ९१] . 1 पर्यवज्ञान ख। 2 लभवनेऽपि डे । 3 फलमिव खल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy