________________
उच्छवासः ]
मदनरेखा - आख्यायिका
दृष्ट्वा चाद्भुतपूतशीलशरभं तस्याः स्थितं मानसे
कुत्रापि पुनरन्यत्र --
सिंहः सोऽपि ननाम पादकमलं भीतः स्वदासो यथा ॥ २५७॥
धूमस्तोमा यदीया बहुजलदघटाः स्फारतारस्फुलिङ्गास्ताराकाराः पिशङ्गीकृतगगनतला विश्वसंध्याभ्रतुल्याः । शार्दूल- व्याघ्र-सिंह- द्विरद-मृग- शशत्राणहेतोरिवोच्चे
स्तस्याश्च के सतीत्वं तमपि वनदवं चित्रकर्मस्वरूपम् ॥२५८॥ व्रजन्ती च पुरस्तात् पुरुषोत्तममिव घनरुचिरतरङ्गोपशोभमानं सामोदकमलालङ्कृतं सच्चक्ररमणीयं सदानन्दकप्रभां बिभ्राणम्, परितोऽपि परिवेष्टितमपास्तर विकरप्रवेशेन सालहिन्ताल-ताल-तमाल- सहकारप्रकारको रस्कराभिरामेण महाकाननेन पैद्माकरमेकमैक्षिष्ट । प्रतिरजनिप्रतिबिम्बिततारकचन्द्रो विभाति यः कम्पात् ।
मथनभयादिव रत्नाकरस्त्वयं विजनवनलीनः ॥ २५९॥
Jain Education International
*ફ્
१. [ पुरुषोत्तमो नारायणः तं च घनवद् मेघवद् रुचिरतरं - श्यामम् इत्यर्थः । गोपवद् गोर्वा शोभमानं सामोदया - सानन्दया कमलया - लक्ष्म्याऽलंकृतं सत् शोभनेन चक्रेण सुदर्शनाख्येन रमणीयम्, सदा - नित्यं नन्दकस्य खड्गस्य प्रभां विभ्राणम्, पद्माकरं तु घनैः - प्रभूतैः, रुचिरैःमनोहरैः तरङ्गैः- कल्लोलैः उपशोभमानम् । सामोदै:- सपरिमलैः कमलैः - पङ्कजैः अलंकृतम् । सद्भिः - शोभनैः, चक्रेः- चक्रवाकैः रमणीयम् । सदानन्दं - नित्यहर्फे, कम्-पानीयं तस्य प्रभां विभ्राणम् | अग्रेतनं ' तनयश्च' इत्यन्तं सुगमम् । ]
6
घनरुचिरतरङ्गोपशोभमानं सामोदकमलालंकृतं सच्च रमणीयं सदानन्दप्रभां बिभ्राणम्एतानि चत्वारि विशेषणानि पद्माकरस्य तथा पुरुषोत्तमस्यापि अत्र पद्माकरः ( सरोवरम् ) पुरुषो त्तमेन उपमीयते । पद्माकरपक्षे घनरुचिराः - मेघसमानसुन्दराः तरङ्गास्तैः उपशोभमानं पद्माकरम् । पुरुषोत्तमपक्षे घनरुचिः - मेघसमानकान्तिः रतरङ्गः -रते रमणे रङ्गो यस्य स रतरङ्गः, तथा उपशोभमानः, अथवा रतं रमणं, रङ्गो नृत्यं ताभ्याम् उपशोभमानः एतादृशः पुरुषोत्तमः -श्रीकृष्णः प्रतीत एव । पद्मा० पक्षे सामोदानि - सुगन्धसहितानि कमलानि तैः अलंकृतम् । पु० पक्षे सामोदासुप्रसन्ना, कमला- लक्ष्मीः तया अलंकृतम् । प० पक्षे सद्भिः -शोभनैः चक्रवाकै रमणीयं- मनोहरम् । पु० पक्षे सता - शोभनेन, चक्रेण सुदर्शनचक्रेण रमणीयम् । प० पक्षे सदा अथवा सन् आनन्दः यस्यां सा सदानन्दिका, सदानन्दिका चासौ प्रभा च सदानन्दकप्रभा, तां विभ्राणम्, पु० पक्षे सदा - निरन्तरम् अथवा सन् - शोभनः नन्दको नाम असि ( तरवारि: ) तस्य प्रभां बिभ्राणम् । 'असिंस्तु नन्दकः, विष्णोः असेर्नाम " [-अभि० कां० २, श्लो. १३६ ] ।
८८
२. कारस्कराः - वृक्षाः |
३. दृश्यमानः पद्माकरः, पद्माकरो न, किन्तु मां केचित् पुनरपि मथिष्यन्ति इति भयात् स्वयं रत्नाकरः समुद्र एवं विजनवनलीनः - एकान्ते जनरहिते स्थाने समागते वने लीनः किम् अर्थात् पद्माकरः- सरोवरम् अतीवविशालं समुद्रभ्रान्तिं जनयति इति भावः ।
2
1 दृष्टवेवाद्भुतभूत खल | 2 ° तारास्फु' डे । 3 विश्व सं खल |
For Private & Personal Use Only
www.jainelibrary.org